________________
२३८
प्रज्ञापनाउपाङ्गसूत्रम्-२- २९/-1-1५७२ वदित्यर्तः,असावपिःछद्मस्थानामान्तर्मुहूर्त्तिकः परमानाकारोपयोगकालत् साकारोपयोगकालः सङ्ख्येयगुणः प्रतिपत्तव्यः, पर्यापरिच्छेदकतया चिरकाललगनात्, छद्मस्थानांतथास्वाभाव्यात्, केवलिनां त्वनाकारोऽप्युपयोग एकसामयिकः, चशब्दौ स्वगतानेकभेदसूचकौ, तत्र साकारोपयोगभेदानभिधित्सुरिदमाह
'सागारोवओगेणंभंते!' इति, अर्थाभिमुखोनियतः-प्रतिनियतस्वरूपोबोधो-बोधविशेषो अभिनिबोधः अभिनिबोधएव आभिनिबोधिकं, अभिनिबोधशब्दस्य विनयादिपाठाभ्युपगमात् 'विनयादिभ्य' इत्यनेन स्वार्थेइकणप्रत्ययः, 'अतिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिभङ्गवचनानी' तिवचनादत्र नपुंसकता, यथा विनय एव वैनयिकमित्यत्र, अथवा अभिनिबुध्यतेऽस्मादस्मिन्वेति अभिनिबोधः-तदावरणकर्मक्षयोपशमस्तेन निवृत्तमाभिनिबोधिकं तच्च तज्ज्ञानं च आभिनिबोधिकज्ञानं, सच इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः,स चासौ साकारोपयोगश्च आभिनिबोधिकज्ञानसाकारोपयोगः, एवं सर्वत्रापि समासः कर्तव्यः,
तथा श्रवणं श्रुतं-वाच्यवाचकभावपुरस्सरीकारेणशब्दसंस्पृष्टार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु घटशब्दवाच्यं जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतः समानपरिणामःशब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः, श्रुतंचतत् ज्ञानंच श्रुतज्ञानं,ततो भूय; साकारोपयोगशब्देन विशेषणसमासः, तथाऽवशब्दोऽधःशब्दार्थः, अव-अधो विस्तृतं वस्तु धीयते-परिच्छिद्यतेऽनेनेत्यवधिः, यद्वा अवधिः-मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपातदुपलक्षितं ज्ञानमप्यवधिः, अवधिश्चासौ ज्ञानंचावधिज्ञानं,
तथापरिः-सर्वतोभावेअवनंअवः, 'तुदादिभ्योऽन्का वित्यधिकारे 'अकितौचे'त्यकारप्रत्ययः,अवनंगमनमितिपर्यायाः, परिअवःपर्यवः,मनसिमनसोवा पर्यवःमनःपर्यवः,सर्वतस्त्परिच्छेद इत्यर्थः, पाठान्तरं पर्यय इति, तत्र पर्ययणं पर्ययः बावेऽल्प्रत्ययः, मनसि मनसो वा पर्ययः मनःपर्ययः, सर्वतस्तत्परिच्छेद इत्यर्थः, स चासौ ज्ञानं च मनःपर्यवज्ञानं मनःपर्ययज्ञानं वा, अथवा मनःपर्यायेति पाठान्तरं, तत्र मनांसि पर्येति-सर्वात्मना परिच्छिनत्ति मनःपर्याय, 'कर्णोषऽण्' मनःपर्यायं च तत् ज्ञानं च मनःपर्यायज्ञान, यदिवा मनसः पर्यायाः मनःपर्यायाः, पर्याया धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यनन्तरं, तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्द्धतृतीयद्वीपसमुद्रान्तर्वतिसंज्ञिमनोगतद्रव्यालम्बनं,
तथा केवलं-एकंमत्यादिज्ञाननिरपेक्षत्वात्, ‘नटुंमि उछाउमथिए नाणे' इति वचनात् शुद्धं वा केवलं तदावरणमलकलङ्कविगमात्सकलं वा केवलंप्रथमत एवाशेषतदावरणविगतमः सम्पूर्णोत्पत्तेः असाधारणं वा केवलमनन्यसदशत्वात् अनन्तं वा केवलं ज्ञेयानन्तात्वात्, केवलंच तत् ज्ञानं च केवलज्ञानं, तथा मतिश्रुतावधय एव यदा मिथ्यात्वकलुषिता भवन्ति तदा यथाक्रम मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानव्यपदेशांल्लभन्ते, उक्तं च "आधत्रयमज्ञानपि भवति मिथ्यात्वसंयुक्त"मिति, 'विभङ्ग' इतिविपरतो भङ्गः-परिच्छित्तिप्रकारो यस्य तत् विभङ्गं, तच्च तत् ज्ञानं च विभङ्गज्ञानं, सर्वत्रापि च साकारोपयोगशब्देन विशेषणसमासः।
____ अनाकारोपयोगभेदानभिधिसुराह-'अनागारोवओगेणंभंते !' इत्यादि, तत्र चक्षुषाचक्षुरिन्द्रियेणदर्शनं-रूपसामान्यग्रहणलक्षणंचक्षुर्दर्शनं तच्चतत् अनाकारोपयोगःचक्षुर्दर्शनाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org