Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 557
________________ २३० प्रज्ञापनारपासूत्रम्-२-- २८/२/७/५६५ अवसेसेसु जीवेगिंदियवञो तियभंगो, अकसाई जहा नोसण्णीनोअसण्णी, । दृ. कषायद्वारं-'सकसाइणं भंते! जीवे' इत्यादि, एकवचनविषयंसूत्रं सुगम, बहुवचने 'जीवेगिंदियवज्जो तियभंगो'त्ति जीवपदे पृथिव्यादिषु च पञ्चसु पदेषु प्रत्येकं आहारका अपि अनाहारका अपि वक्तव्यं, उभयेषामपि सकषायाणां सदैवतेषु स्थानेषु बहुत्वेन लभ्यमानत्वात्, शेषेषु तु स्थानेषु भङ्गत्रिकं, 'कोहकसाई एवंचेव'त्ति क्रोधकषाय्यपिएवमेव-सामान्यतः सकषायवदसेयः, तत्रापि जीवपदे पृथिव्यादिपदेषु चाभङ्गकं, शेषेषु तुस्थानेषु भङ्गत्रिकमिति भावः, किं सर्वेष्वपि शेषेषु स्थानेषु भङ्गत्रिकं ?, नेत्याह-'नवरं' 'देवेसु छब्मंगा देवा हि स्वभावत एव लोभबहुला भवन्ति नक्रोधादिबहुलाः, ततः क्रोधकषायिण एकादयोऽपिलभ्यन्ते इतिषड्भङ्गाः, तद्यथा-कदाचित् सर्वेऽप्याहारका एवक्रोधकषायिणः, एकस्यापि विग्रहत्यापन्नस्यालभ्यमानत्वात् ?, कदाचित्सर्वेऽप्यनाहारकाः २, एकस्यापि क्रोधकषायिणः सत आहारकस्याप्राप्यमानत्वात, क्रोधोदयो हि मानाद्युदयविविक्त एवेए विवक्ष्यते न मानाधुदयसहितोऽपि, तेन क्रोधकषायिणः सतः कदाचिदाहारकस्य सर्वथाऽप्यभावः, तथा कदाचिदेक आहारक एकोऽ नाहारकः ३ कदाचिदेक आहारको बहवोऽनाहारकाः४,कदाचिद्बहव आहारकाएकोऽनाहारकः ५, कदाचिद्बहव आहारकाःबहवश्वानाहारका इति६,मानकषायसूत्रमायाकषायसूत्रंचैकवचने प्राग्वत्, बहुवचने विशेषमाह__मानकसाईसु' इत्यादि, मानकषायिषु मायाकषायिषु बहुवचनेन चिन्त्यमानेषु देवेषु नैरयिकेषुच प्रत्येकंषड् भङ्गाः, नैरयिका हिभवस्वभावतः क्रोधबहुलाः देवास्तुलोभबहुलास्ततो देवानांनैरयिकाणांचमानकषायोमायाकषायश्च प्रविरल इतिप्रागुक्तप्रकारेण षट्भङ्गाः,जीवपदे पृथिव्यादिपदेषु च प्रत्येकमभङ्गकमाहारकाणामनाहारकाणां च मानकषायिणां मायाकषायिणां च प्रत्येकं सदैव तेषु २ स्थानेषु बहुत्वेन लभ्यमानत्वात्, शेषेषु तु स्थानेषु मङ्गत्रिकं, लोभकषायसूत्रमप्येकवचने तथैव, बहुवचने विशेषमाह-- 'लोभकसाईसु' इत्यादि, लोभकषायिषु नैरयिकेषुषट्भङ्गास्तेषां लोभकषायस्याल्पत्वात, शेषेषुतुजीवैकेन्द्रियवर्जेषुस्थानेष्वपि भङ्गत्रिकं, देवेष्वपि भङ्गत्रिकमितिभावः तेषांलोभबहुलतया षड्भङ्गसम्भवात्, जीवेष्वेकेन्द्रियेषु च प्राग्वदेष एव भङ्गः, आहारका अप्यनाहारका अपि इति, 'अकसाईजहा नोसण्णीणोअसण्णी तिअकषायिणो यथा नोसंज्ञिनोऽसंज्ञिनोउक्तास्था वक्तव्याः, किमुक्तं भवति?-अकषायिणोऽपिमनुष्याः सिद्धाश्च, मनुष्या उपशान्तकषायादयोवेदितव्याः, अन्येषां सकषायित्वात्, तत एतेषामपि त्रीणि पदानि, तद्यथा-सामान्यतो जीवपदं मनुष्यपदं सिद्धपदंच, तत्र सामान्यतोजीवपदे मनुष्यपदे च प्रत्येकमेकवचने स्यादाहारकः स्यादनाहारकइति वक्तव्यं, सिद्धपदे त्वनाहारकएवेति,बहुवचने जीवपदे आहारका अपिअनाहारका अपीति, केवलिनामाहारकाणां सिद्धनामनाहारकाणां सदैव बहुत्वेन लभ्यमानत्वात्, मनुष्यपदे भङ्गत्रिक, सर्वेऽपि तावद् भवेयुराहारकाः १ अथवा आहारकाश्चनाहारकश्च २ अथवा आहारकाश्चनाहारकाश्च ३ भावनाच प्रागेवानेकशः कृता, सिद्धपदे त्वनाहारक एव । गतं कषायद्वारं, सम्प्रति ज्ञानद्वारम्, तत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664