________________
२३०
प्रज्ञापनारपासूत्रम्-२-- २८/२/७/५६५
अवसेसेसु जीवेगिंदियवञो तियभंगो,
अकसाई जहा नोसण्णीनोअसण्णी, ।
दृ. कषायद्वारं-'सकसाइणं भंते! जीवे' इत्यादि, एकवचनविषयंसूत्रं सुगम, बहुवचने 'जीवेगिंदियवज्जो तियभंगो'त्ति जीवपदे पृथिव्यादिषु च पञ्चसु पदेषु प्रत्येकं आहारका अपि अनाहारका अपि वक्तव्यं, उभयेषामपि सकषायाणां सदैवतेषु स्थानेषु बहुत्वेन लभ्यमानत्वात्, शेषेषु तु स्थानेषु भङ्गत्रिकं,
'कोहकसाई एवंचेव'त्ति क्रोधकषाय्यपिएवमेव-सामान्यतः सकषायवदसेयः, तत्रापि जीवपदे पृथिव्यादिपदेषु चाभङ्गकं, शेषेषु तुस्थानेषु भङ्गत्रिकमिति भावः, किं सर्वेष्वपि शेषेषु स्थानेषु भङ्गत्रिकं ?, नेत्याह-'नवरं' 'देवेसु छब्मंगा देवा हि स्वभावत एव लोभबहुला भवन्ति नक्रोधादिबहुलाः, ततः क्रोधकषायिण एकादयोऽपिलभ्यन्ते इतिषड्भङ्गाः, तद्यथा-कदाचित् सर्वेऽप्याहारका एवक्रोधकषायिणः, एकस्यापि विग्रहत्यापन्नस्यालभ्यमानत्वात् ?, कदाचित्सर्वेऽप्यनाहारकाः २, एकस्यापि क्रोधकषायिणः सत आहारकस्याप्राप्यमानत्वात,
क्रोधोदयो हि मानाद्युदयविविक्त एवेए विवक्ष्यते न मानाधुदयसहितोऽपि, तेन क्रोधकषायिणः सतः कदाचिदाहारकस्य सर्वथाऽप्यभावः, तथा कदाचिदेक आहारक एकोऽ नाहारकः ३ कदाचिदेक आहारको बहवोऽनाहारकाः४,कदाचिद्बहव आहारकाएकोऽनाहारकः ५, कदाचिद्बहव आहारकाःबहवश्वानाहारका इति६,मानकषायसूत्रमायाकषायसूत्रंचैकवचने प्राग्वत्, बहुवचने विशेषमाह__मानकसाईसु' इत्यादि, मानकषायिषु मायाकषायिषु बहुवचनेन चिन्त्यमानेषु देवेषु नैरयिकेषुच प्रत्येकंषड् भङ्गाः, नैरयिका हिभवस्वभावतः क्रोधबहुलाः देवास्तुलोभबहुलास्ततो देवानांनैरयिकाणांचमानकषायोमायाकषायश्च प्रविरल इतिप्रागुक्तप्रकारेण षट्भङ्गाः,जीवपदे पृथिव्यादिपदेषु च प्रत्येकमभङ्गकमाहारकाणामनाहारकाणां च मानकषायिणां मायाकषायिणां च प्रत्येकं सदैव तेषु २ स्थानेषु बहुत्वेन लभ्यमानत्वात्, शेषेषु तु स्थानेषु मङ्गत्रिकं, लोभकषायसूत्रमप्येकवचने तथैव, बहुवचने विशेषमाह--
'लोभकसाईसु' इत्यादि, लोभकषायिषु नैरयिकेषुषट्भङ्गास्तेषां लोभकषायस्याल्पत्वात, शेषेषुतुजीवैकेन्द्रियवर्जेषुस्थानेष्वपि भङ्गत्रिकं, देवेष्वपि भङ्गत्रिकमितिभावः तेषांलोभबहुलतया षड्भङ्गसम्भवात्, जीवेष्वेकेन्द्रियेषु च प्राग्वदेष एव भङ्गः, आहारका अप्यनाहारका अपि इति,
'अकसाईजहा नोसण्णीणोअसण्णी तिअकषायिणो यथा नोसंज्ञिनोऽसंज्ञिनोउक्तास्था वक्तव्याः, किमुक्तं भवति?-अकषायिणोऽपिमनुष्याः सिद्धाश्च, मनुष्या उपशान्तकषायादयोवेदितव्याः, अन्येषां सकषायित्वात्, तत एतेषामपि त्रीणि पदानि, तद्यथा-सामान्यतो जीवपदं मनुष्यपदं सिद्धपदंच, तत्र सामान्यतोजीवपदे मनुष्यपदे च प्रत्येकमेकवचने स्यादाहारकः स्यादनाहारकइति वक्तव्यं, सिद्धपदे त्वनाहारकएवेति,बहुवचने जीवपदे आहारका अपिअनाहारका अपीति, केवलिनामाहारकाणां सिद्धनामनाहारकाणां सदैव बहुत्वेन लभ्यमानत्वात्,
मनुष्यपदे भङ्गत्रिक, सर्वेऽपि तावद् भवेयुराहारकाः १ अथवा आहारकाश्चनाहारकश्च २ अथवा आहारकाश्चनाहारकाश्च ३ भावनाच प्रागेवानेकशः कृता, सिद्धपदे त्वनाहारक एव ।
गतं कषायद्वारं, सम्प्रति ज्ञानद्वारम्, तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org