________________
पदं-२८, उद्देशकः-२, द्वारं-५
२२९ वक्तव्यं, नवरमेकेन्द्रियविकलेन्द्रिया न वक्तव्याः, तेषां सम्यग्मिथ्याष्टित्वासम्भवात्, एवं बहुवचनेऽपि वक्तव्यं, तद्यथा-“सम्मामिच्छदिट्ठीणं भंते ! जीवा किं आहारगा अनाहारगा?, गो० १ आहारगा नो अनाहारगा, सम्मामिच्छद्दिट्टी णं भंते ! नेरइया किं आ० अना०?, गो० ! आहारगा नो अनाहारगा, एवमेगिंदियविगलिंदियवजा जाव वेमाणिया' इति । गतं टिद्वार,
-पदं-२८, उद्देशकः-२ दारं-६- "संयत':':मू. (५६४) संजए णं भंते ! जीवे किं आहा० अना०?, गो० ! सिय आहारए सिय अनाहारए, एवं मणूसेवि, पुहुत्तेणं तियभंगो।
असंजते पुच्छा, सिय आहारए सिय अनाहारए, पुहुत्तेणं जीवेगिंदियवज्जो तियभंगो।
संजतासंजते णं जीवे० पंचिंदियतिरिक्खजोणिते मणूसे य ३ एते एघत्तेणवि पुहुत्तेणवि आहारगा नो अना०, नोसंजतेनोअसंदतेनोसंजतासंजते जीवे सिद्धे य एते एगत्तेण पोहत्तेणवि नो आहा० अना०1
वृ. सम्प्रति संयतद्वार-संयतत्वंच मनुष्याणामेव, तत्र द्वेपदे, तद्यथा-जीवपदं मनुष्यपदं च, तत्रजीवपदे सूत्रमाह-संजएणंभंते! जीवे' इत्यादि सुगम, नवरमनाहारकत्वं केवलिसमुद्घातावस्थायामयोगित्वावस्थायांच वेदितव्यं, शेषकालमाहारकत्वं, एवंमणूसेवित्तिएवंमनुष्यविषये सूत्रं वक्तव्यं, तद्यथा- 'संजएणं भंते! मणूसे किं आहारए अनाहारए?, गो० सिय आहारए सियअनाहारए भावनाऽनन्तरमेवोक्ता, 'पुहुत्तेणं तियभंगो'त्ति पृथकत्वेन-बहुवचनेनजीवपदे मनुष्यपदे च प्रत्येकं भङ्गत्रिकं, तच्चैवं-सर्वेऽपि तावद्मवेयुराहारकाः, एष भङ्गो यदा न कोऽपि केवली समुद्घात-मयोगित्वंवा प्रतिपन्नो भवति तदा वेदितव्यः, अथवा आहारकाचानाहारकश्च, एष एकस्मिन् केवलिनि समवहते शैलेशी वा गते प्राप्यते, अथवा आहारकाश्चनाहारकाच, एष बहुषु केवलिषु समवहतेषु शैलेशीगतेषु वा लभ्यते ।
___असंयतसूत्रेएकवचने सर्वत्रस्यादाहाहारकः स्यादनाहारक इतिवक्तव्यं,बहुवचनेजीवपदे पृथिव्यादिषुचपदेषु प्रत्येकपाहारका अपि अनाहारका अपि इत्येष भङ्गः, शेषेषुतुनैरयिकादिषु स्थानेषु प्रत्येकं भङ्गत्रिकं, संयतासंयता-देशविरताः, तेच तिर्यक्पञ्चेन्द्रिया मनुष्या वान शेषाः, शेषाणां स्वभावत एव देशविपरतिपरिणामाभावाद्, एवं चैतेषां त्रीणि पदानि, तद्यथा-सामान्यतो जीवपदंतिर्यक्पञ्चेन्द्रियपदं मनुष्यपदंच, एतेषुत्रिष्वपिस्थानेषु एकवचने बहुवचनेच आहरका भवन्ति, भवान्तरगतौ केवलिसमुद्घाताद्यवस्थासु च देशविरतिपरिणामा- भावात्, नोसंयतोनोअसंयतोनसंयतासंयतः, तच्चिन्तायां द्वे पदे, तद्यथा-जीवपदं सिद्धपदं च, उभयत्राप्येकवचने बहुवचनेचानाहारकत्वमेव वक्तव्यं, न त्वाहारकत्वं, सिद्धानामनाहारकत्वात् गतं संयतद्वारं,
-: पदं-२८-उद्देशकः-२ दारं-७- “कषायः":मू. (५६५) सकसाइ णं भंते ! जीवे किं आहारए अना०?, गो० ! सिय आ० सिय अनाहारते, एवं जाव वेमाणिता, पुहुत्तेणं जीवेगिंदियवञ्जो तियभंगो
कोहकसाईसु जीवादीसु एवं चेव, नवरं देवेसु छब्भंगा, मानकसाईसु मायाकसाईसु य देवनेरइएसु छड्भंगा, अवसेसाणं जीवेगिंदियवज्जो तियभंगो, लोहकसाईसु नेरइएसु छब्भंगा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org