SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ २२८ प्रज्ञापनाउपासूत्रम्-२- २८/२/४/५६२ तद्यथा-सामान्यतोजीवपदंतिर्यक्पञ्चेन्द्रियपदंमनुष्यपदंवैमानिकपदंच, सर्वत्राप्येकवचनचिन्तायां स्यादाहारकः स्यादनाहारक इति भङ्गः, बहुवचनचिन्तायां भङ्गत्रिकं, तद्यथा-सर्वेऽपि तावद् भवेयुराहारकाः १ अथवा आहारकाश्च अनाहारकश्च २ अथवा आहारकाश्चानाहारकाश्च ३, तथा चाह-'पम्हलेसाए सुक्कलेसाए जीवाइओ तियभंगो'त्ति, अलेश्या लेश्यातीतास्ते चायोगिकेवलिनः सिद्दाश्च, ततोऽत्र त्रीणि पदानि, तद्यथा सामान्यतो जीवपदं मनुष्याः सिद्धाश्च, सर्वत्राप्येकवचनेन बहुवचनेन चानाहारकाएव वक्तव्याः, एतदेवाह-'अलेस्सा जीवा मणुस्सा सिद्धा य एगत्तेणवि पुहुत्तेणवि नो आहारमा अनाहारगा' इति, गतं लेश्याद्वारम्। पदं-२८, उद्देशकः-२ दारं-५"ष्टि" :मू. (५६३) सम्मद्दिट्ठीणंभंते ! जीवा किं आहा० अना०?, गो० ! सिय आहा० सिय अना०, बेइंदिया तेइंदिया चउरिदिया छब्भंगा, सिद्धा अनाहारगा, अवसेसाणं तियभंगो, मिच्छादिट्ठीसुजीवेगिदियवज्जो तियभंगो, सम्मामिच्छादिट्ठी णं भंते ! किं आहा० अना०?, गो० ! आहारते नो अना०, एवं एगिदियविगलिंदियवजं जाव वेमाणिते, एवं पुहुत्तेणवि। व. सम्प्रति सम्यग्दृष्टिद्वारम-सम्यग्दृष्टिश्चेहौपशमिकसम्यकत्वेन सास्वादनसम्यकत्वेन क्षायोपशमिकसम्यकत्वेन वेदकसम्यकत्वेन क्षायिकसम्यकत्वेन वा प्रतिपत्तव्यः, सामान्यत उपादानात्, तथैवाग्रे भङ्गचिन्तायाअपिकरिष्यमाणत्वात्, तत्रौपशमिकसम्यग्दृष्टादयः सुप्रतीताः, वेदसम्यग्दृष्टिः पुनः क्षायिकसम्यकत्वमुत्पादयन् चरमग्रासमनुभवन्नवसेयः एकत्वे सर्वेष्वपि जीवादिपदेषु प्रत्येकमेष भङ्गः स्यादाहारकः स्यादनाहारक इति, नवरमत्र पृथिव्यादिविषयं सूत्रं नवक्तव्यं, तेषां सम्यग्धष्टित्वायोगात्, 'उभयाभावो पुढवाइएसु' इति वचनाद्, बहुवचन विषयं सूत्रं, सामान्यतो जीवपदे आहारका अपि अनाहारका अपि इत्येष एव भङ्गः, उभयेषामपि सदा सम्यग्दृष्टीनां बहुत्वेन लभ्यमानत्वात्, नैरयिकभवनपतितिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्कवैमानिकेषुप्रत्येकं भङ्गत्रिकं, तद्यथा-कदाचित्सर्वेऽप्याहारकाएव १ कदाचिदाहारका एकश्चानाहारकः२, कदाचिदाहारकाश्च अनाहारकाश्च ३, द्वित्रिचतुरिन्द्रियेषु पुनः षड्भङ्गाः, तेच प्राग्वद्भावनीयाः, द्वीन्द्रियादीनांचसम्यग्दृष्टित्वमपर्याप्तावस्थासम्भविसास्वादनसम्यकत्वापेक्षया द्रष्टव्यं, सिद्धास्त्वनाहारकाः, एतेषां क्षायिकसम्यकत्वयुक्तत्वात्, तथाचाह-'बेइंदियतेइंदियचउरिदिएसुछब्भंगा, सिद्धा अनाहारगा, अवसेसाणं तियभंगो' मिथ्याष्टिष्वपिएकवचने सर्वत्र स्यादाहारकः स्यादनाहारक इति वक्तव्यं, बहुवचने जीवपदे पृथिव्यादिपदेषु च प्रत्येकमाहारका अपि अनाहारका अपीति, उभयेऽमपि सर्वदैवे तेषु बहुत्वेन लभ्यमानत्वेन, शेषेषु तु सर्वेषु स्थानेषु भङ्गत्रिकं, सिद्धसूत्रं चात्र न वक्तव्यं, सिद्धानां मिथ्यात्वापगमात्, एतदेवाह- 'मिच्छादिट्ठीसुजीवेगिंदियवज्जो तियभंगो, सम्मामिच्छदिट्ठीणंभंते! जीवे' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! आहारको नोअनाहारकः, कस्मादिति चेत्, उच्यते, इह संसारिणामनाहारकत्वं विग्रगती, नच सम्यग्मिथ्याघटित्वं विग्रहगताववाप्यते, कालकरणायोगात्, ‘सम्मामिच्छो न कुणइ कालं' इति वचनात्, ततः सम्यग्मिथ्याटेर्विग्रहगत्यभावतोऽनाहारकत्वाभावः, एवेचतुर्विंशतिदण्डकक्रमेण सर्वत्रापि Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy