________________
पदं २८, उद्देशक:- २, द्वारं - ८
२३१
-: पदं - २८, उद्देशक :- २ - दारं - ८ "ज्ञानं" :
यू. (५६६) नाणी जहा सम्मद्दिट्ठी, आभिनिबोहियनाणी सुयनाणी य बेइंदियतेइंदियचउरिदिएसु छब्भंगा, अवसेसेसु जीवादिओ तियभंगो जेसिं अत्थि, ओहिनाणी पंचिंदियतिरिक्खजोणिया आहारगा नो अनाहारगा,
अवसेसेसु जीवादिओ तियभंगो जेसिं अत्थि ओहिनाणं, मणपजवनाणी जीवा मणूसा य एगत्तेणवि पुहुत्तेणवि आहा० नो अनाहांरगा, केवलनाणी जहा नोसण्णीनो असण्णी,
अन्नाणी मतिअनाणी सुयअन्नाणी जीवेगिंदियवज्जो तियभंगो, विभंगनाणी पंचिंदियतिरिक्खजोणिया मणूसा य आहारगा नो अना०, अवसेसेसु जीवादियो तियभंगो।
वृ. 'नाणी जहा सम्मद्दिट्ठी' त्ति ज्ञानी यथा प्राक् सम्यग्धष्टिरुक्तस्तथा वक्तव्यः, तद्यथा - नाणी णं भंते! जीवे किं आहारए अनाहारए ?, गो० ! सिय आहारए सिय अनाहारए, नाणी णं भंते! नेरइए कि आहारए अनाहारए ?, गो० ! सिय आ० सिय अनाहारए, एवं एगिंदियवज्जं जाव माणिए, नाणी णं भंते! जीवा किं आहारगा अनाहारगा ?, गो० ! आहारगावि अनाहारगावि,
नाणी णं भंते! नेरइया कि आहारगा अनाहारगा ?, गो० ! सव्वेवि ताव होज्जा आहारगा १, अहवा आहारगाय अनाहारगेय २ अहवा आहारगाय अनाहारगाय ३, एवंजाव धणियकुमारा, बेदियाणं पुच्छा, गो० ! सव्वेवि ताव होज्ज आहारगा य १ अहवा अनाहारगा य २ अहवा आहारए य अनाहारए य ३, अहवा आहारगे य अनाहारगा य ४, अहवा आहारगा य अनाहारगे य५, अहवा आहारगा य अनाहारगा य ६, एवं तेइंदियचउरिदियावि भाणितव्वा, अवसेसा जाव वेमाणिया जहा नेरइया, सिद्धाणं पुच्छा, गो० ! अनाहारगा य' इति,
आभिनिबोधिकज्ञानिसूत्रे श्रुतज्ञानिसूत्रे चैकवचने प्राग्वदवसेयं, बहुवचने द्वित्रिचतुरिन्द्रियेषु षड् भङ्गाः, अवशेषेषु तु जीवादिषु स्थानेषु एकेन्द्रियवर्जेषु भङ्गत्रिकं तच्चैवम्- 'आभिनिबोहियनाणी णं भंते! जीवा किं आहारगा अनाहारगा ?, गो० ! सव्वेवि ताव होज्ज आहारगा १ अहवा आहारगाय अनाहारगे य २ अहवा आहारगा य अनाहारगाय ३ इत्यादि, तथा चाह- 'आभिनिबोहियनाणी सुयनाणी व बेइंदियतेइंदियचउरिदिएसु छब्भंगा, अवसेसेसु जीवाइओ तियभंगो, जेसिं अस्थि' इति सुगमं, नवरं "जेसिं अत्थि' येषां जीवानामाभिनिबोधिकज्ञानश्रुतज्ञाने अतस्तेषु भङ्गत्रिकं वक्तव्यं, न शषेषु पृधिव्यादिष्विति,
अवधिज्ञानसूत्रमेकवचने तथैव, बहुवचनचिन्तायां पञ्चेन्द्रियतिर्यग्योनिका आहारका एव न त्वनाहारकाः, कस्मादिति चेत्, उच्यते, इह पञ्चेन्द्रियतिरश्चामनाहारकत्वं विग्रहगतौ, न च तदानीं तेषां गुणप्रत्ययतोऽवधिसम्भवो, गुणानामेवासम्भवात्, नाप्यप्रतिपतितावधिर्देवो मनुष्यो वा तिर्यक्षूपपद्यते, ततोऽवधिज्ञानिनः सतः पञ्चेन्द्रियतिरश्चोऽनाहारकत्वायोगः, शेषेषु तु स्थानष्वेकेन्द्रिय विकलेन्द्रियवर्जेषु प्रत्येकं भङ्गत्रिकं, तदेवाह - 'ओहिनाणी णं पंचिदियतिरिक्खजोणिया आहारगा अवसेसेसु जीवाइओ तियभगो जेसिं अत्थि ओहिनाण' मिति,
मनः पर्यायज्ञानमं मनुष्याणामेव, तत द्वे पदे, तद्यथा - जीवपदं मनुष्यपदं च, उभयत्रापि चैकवचने बहुवचने च मनः पर्यायज्ञानन आहारका एव वक्तव्याः, न त्वनाहारकाः, विग्रहगत्याद्यवस्थायां मनः पर्यायज्ञानासम्भवात्,
केवलज्ञानी यथा प्राग् नोसंज्ञीनो असंज्ञी उक्तस्तथा वक्तव्यः, किमुक्तं भवति ? -
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International