Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२१४
प्रज्ञापनाउपाङ्गसूत्रम् - २ - २८/१//५५२ मध्ये-मध्येषु समयेषु आहोश्चित्पर्यवसाने - पर्यवसानसमये ?, भगवानाह - गौतम! आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति, किमुक्तं भवति ? - उपभोगोचितस्य कालस्यान्तर्मुहूर्त्तप्रमाणस्यादिमध्यावसानेषु सभयेष्वाहारयन्तीति, यानि भदन्त ! आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति तानि भदन्त ! किं स्वविषयाणिखोचिताहारयोग्यानि आहारयन्ति उत अविषयाणिखोचिताहारायोग्यान्याहारयन्ति ?, भगवानाह - गौतम ! स्वविषयाण्याहारयन्ति नो अविषयाण्या
हारयन्ति,
यानि भदन्त ! स्वविषयण्याहारयन्ति तानि भदन्त ! किमानुपूर्व्याआहारयन्ति अनानुपूर्व्या आनुपूर्वीनाम यथासन्नं यद्विपरता अनानुपूर्वी, भगवानाह - गौतम ! आनुपूर्व्या, सूत्रे द्वीतीय तृतीयार्थे वेदितव्या प्राकृतत्वात्, यथा आचाराङ्गे 'अगणिं च पुट्ठा' इत्यत्र, आहारयन्ति नो अनानुपूर्व्या, ऊर्ध्वमधस्तिर्यग्वा यथासन्नं नातिक्रम्याहारयन्तीति भावः, यानि भदन्त ! आनुपूर्व्या आहारयन्ति तानि किं 'तिदिसिं' ति तिम्रोदिशः समाहतास्त्रिदिक् तस्मिन् व्यवस्थितान्याहारयन्ति चतुर्दिशि पञ्चदिशि षदिशि वा, इह लोकनिष्कुटपर्यन्ते जघन्यपदे त्रिदिग्व्यवस्थितमेव प्राप्यते न द्विदिग्व्यवस्थितमेकदिग्व्यवस्थितं वा अतस्त्रिदिश आरभ्य प्रश्नः कृतः, भगवानाह - गौतम ! नियमात् षड्दिशि व्यवस्थितान्याहारयन्ति, नैरयिका हि त्रसनाड्या मध्ये व्यवस्थिताः, तत्र चावश्यं षड्विक्संभव इति,
'ओसन्नकारणं पडुचे' इत्यादि, ओसन्नशब्दो बाहुल्यावाची, यथा 'ओसन्नं देवा सायावेयणं वेदयन्ती' त्यत्र, ओसन्नकारणं - बाहुल्यकारणं प्रतीत्य, किं तद्बाहुल्यकारणमिति चेत्, उच्यते, अशुभानुभाव एव, तथापि प्रायो मिध्याध्ष्टयः कृष्णागदीन्याहारयन्ति न तु भविष्यतीर्तकरादयः तत ओसनेत्युक्तं, वर्णतः कालनीलानि गन्धतो दुरभिगन्धानि, रसतस्तिक्तकटुकानि स्पर्शतः कर्कशगुरुशीतरूक्षाणि इत्यादि, तेषामाहार्यमाणानां पुद्गलानां 'पुराणान्' अग्रेतनान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् 'विपरिणामइत्ता परिवीलइत्ता परिसाडइत्ता परिविद्धसंइत्ता' एतानि चत्वार्यपि पदानि एकार्थिकानि विनाशार्थप्रतिपादकानि नानादेशजविनेयानुग्रहार्थमुपात्तानि, विनाश्य किमित्याह- अन्यान् अपूर्वान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगणान् उत्पाद्य आत्मसरीरक्षत्रावगाढान् पुद्गलान् 'सव्वष्पणया' सर्वात्मना सर्वैरेवात्मप्रदेशैराहारमाहाररूपान् आहारयन्ति,
'नेरइया णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, 'नेरइया णं भंते! जे पोग्गला' इत्यादि, नैरयिका णमितिपूर्ववत्, भदन्त ! यान् पुद्गलान् आहारतया गृह्णन्ति नैरयिकाः तेषां गृहीतानां पुद्गलानां 'सेकालंसि' एष्यत्काले ग्रहणकालोत्तरकालमित्यर्थः 'कइभागं'ति कतिथं भागमाहारयन्ति- आहारतयोपभुञ्जते ?, तथा 'कतिभागं' कतिथं भागमाहार्यमाणपुद्गलानामास्वादं गृह्णन्ति, नहि सर्वे पुद्गला आहार्यमाणा आस्वादमायान्तीति पृथक् प्रश्नः, भगवानाह - गौतम असङ्ख्येयं भागमाहारयन्ति, अन्ये तु गवादिप्रथमबृहद्ग्रासग्रहण इव परिशरन्ति, आहार्यमाणानां पुद्गलानामनन्तभागमास्वादयन्ति, शेषास्त्वनासादिता एव शरीरपरिणाममापद्यन्ते इति.
‘नेरइया णं भंते!’इत्यादि, नैरयिकाः णमिति पूर्ववत् यान् पुद्गलान् आहारतया गृह्णन्ति, इह ग्रहणं विशिष्टमवसेयं ततो येउज्झितशेषाः केवला आहारपरिणामयोग्य एवावतिष्ठन्ते तेऽत्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664