Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 432
________________ ३९८ उत्तरज्झयणाणि-१ एको दष्टों भुजङ्गेन निर्गत्य वटकोटरात् । द्वितीयस्तमहिं द्रष्टुं दष्टस्तेनाहिना भ्रमन् ॥१०॥ ततो द्वावपि जज्ञाते मृतौ कालिञ्जरे नगे । हरिण्यां यमलत्वेन मृगौ प्राक्प्रीतियोगतः ॥ ११॥ नैकट्येन चरन्तौ तौ व्याधेनैकेषुणा हतौ । ततो गङ्गातटे हंसावभूतां हंसिकोदरात् ॥१२॥ सममेव भ्रमन्तौ तौ बद्ध्वा पाशिकयैकया । मारितौ गलमामोट्य धीवरेण कुधीयुजा ॥१३॥ ततः सुरसरितीरे काश्यां तौ समजायताम् 1 श्वपचेड्भूतदिन्नस्य समृद्धस्य गृहे सुतौ ॥१४॥ पित्रा नाम तयोर्दत्तं चित्रः सम्भूतकस्तथा । वर्धमानौ क्रमाज्जातौ तौ कलाग्रहणोचितौ ॥१५॥ काश्यां तदा नृपो जज्ञे शङ्खनामा पराक्रमी । नमुचिः सचिवस्तस्य राज्यकार्यकरः सुधीः ||१६|| दत्तस्तत्रान्यदा राज्ञा नमुचिः सचिवो द्विजः । तन्मातङ्गाय बध्योऽयं यतः शुद्धान्तधर्षकः ॥१७॥ तेनोचे यदि मत्पुत्रौ विद्यां पाठयसे तदा । मुञ्चामि नान्यथा मेऽत्र राज्ञामाज्ञा हि दुस्त्यजा ||१८|| स्वीकृत्य तद्वचो मन्त्री पाठयामास तत्सुतौ । सङ्गीतकादिशास्त्राणि तद्गृहान्तर्वसन् सदा ॥ १९॥ तयोर्मातुः करात् तत्र भोजनाद्यपि सोऽकरोत् । किं कुर्याज्जीवितव्यार्थी न ह्यनाचारमप्यहो ! ॥२०॥ क्रमात् तौ वेणु-वीणादिविद्यानां पारदृश्वकौ । जातौ मोहोदयान्मन्त्री तयोर्जञ्जभ्यते प्रसूम् ॥२१॥ मातङ्गस्तस्य जारत्वं ज्ञात्वैच्छत् तं विनाशितुम् । तौ च विद्यागुरुरिति नाशयामासतुस्तकम् ॥२२॥ मुष्टिं बद्ध्वा ततो नष्टो हस्तिनागपुरं गतः । मन्त्रित्वेऽस्थापि नमुचिः सनत्कुमारचक्रिणा ॥२३॥ For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500