Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 473
________________ चतुर्दशमिषुकारीयाध्ययनम् ४३९ व्याख्या-इमे च प्रत्यक्षाः शब्दादयो बद्धा नियन्त्रिता अनेकोपायै रक्षिताः स्पन्दन्तेऽस्थिरधर्मतया । कीदृशास्ते ? ममोपलक्षणात् 'तव च' हस्तं हे आर्य ! आगताः प्राप्ताः स्ववशा इत्यर्थः । वयं पुनः सक्तान्यभिष्वङ्गवन्ति कामेष्वेवंविधेष्वपि चामीष्वभिष्वङ्गो मोहविलसितमिति भावः । अतो भविष्यामो यथेमे पुरोहितादयः । यथाऽमीभिश्चञ्चलत्वमवलोक्यैते त्यक्तास्तथा वयमपि त्यक्ष्याम इति भावः ॥४५॥ किमित्यमी सुखहेतवोऽपि त्यज्यन्ते ? इत्याह सामिसं कुललं दिस्सा बज्झमाणं निरामिसं । आमिसं सव्वमुज्झित्ता विहरिस्सामो निरामिसा ॥४६॥ व्याख्या-प्रक्रमात् सामिषं मांसोपेतं 'कुललं' गृधं शकुनिकां वा दृष्ट्वा बध्यमानं पीड्यमानं 'पक्ष्यन्तरैरिति गम्यम्' । निरामिषमामिषविरहितं पुनरन्यथाभूतं अबध्यमानं 'दृष्ट्वेति गम्यते' । आमिषमभिष्वङ्गहेतुं धनधान्यादि सर्वमुज्झित्वा त्यक्त्वा विहरिष्याम्यप्रतिबद्धविहारितया चरिष्यामि निरामिषा त्यक्ताभिष्वङ्गहेतुः ॥४६॥ पुनरुपदेष्टुमाह गिद्धोवमे य नच्चा णं कामे संसारवड्डणे । उरगो सुवण्णपासि व्व संकमाणो तणुं चरे ॥४७॥ व्याख्या गृध्रोपमान् 'चः समुच्चये' ज्ञात्वा ‘णं वाक्यालङ्कारे' प्रक्रमाद् विषयामिषवतो लोकान् कामांश्चसंसारवर्धनान् संसारवृद्धिहेतून् ज्ञात्वेति योगः । किमित्याह-'उरगो' 'सुवण्णपासि व्व'त्ति आर्षत्वादिवशब्दोऽत्र भिन्नक्रमः । उरग इव सर्प इव सौपर्णेयपाइँ गरुडसमीपे शङ्कमानो भयत्रस्तस्तन्विति स्तोकं मन्दं यतनया चरेः क्रियासु प्रवर्तस्व । अयमाशयो यथा सौपर्णेयोपमैविषयैर्न बाध्यसे तथा संयममासेवस्व ॥४७॥ ततश्च किमित्याह नागु व्व बंधणं छित्ता अप्पणो वसहिं वए । एयं पत्थं महाराय ! उसुयारि त्ति मे सुयं ॥४८॥ व्याख्या-नाग इव गज इव बन्धनं छित्त्वाऽऽत्मनो वसतिं व्रजति । अयमभिप्रायो यथा नागो वरत्राण्डुकादि बन्धनं छित्त्वा द्विधा कृत्वात्मनो वसतिं विन्ध्याटवीं व्रजत्येवं भवानपि कर्मबन्धनं निहत्यात्मनः शुद्धजीवस्य वसतिं मुक्ति Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500