Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 491
________________ षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनम् महायजणणी कामरागविवडणी । बंभचेररओ भिक्खू थीकहं तु विवज्जए ॥२॥ व्याख्या - मनसः प्रह्लादोऽहो ! रूपातिशय इति सङ्कल्पजः प्रमोदस्तस्य जननी उत्पादिका । कामरागो विषयाभिष्वङ्गस्तस्य विवर्द्धनी तां ब्रह्मचर्यरतो भिक्षुः स्त्रीकथां विवर्जयेत् ॥२॥ समं च संथवं थीहिं संकहं च अभिक्खणं । बंभचेररओ भिक्खू निच्चसो परिवज्जए ॥३॥ व्याख्या - समं च सह संस्तवं परिचयं स्त्रीभिः 'एकासनोपवेशनादिनेति गम्यम्' । सङ्कथां च ताभिरेव समं सततं भाषणात्मिकामभीक्ष्णं पुनः पुनः नित्यशो नित्यं परिवर्जयेत् ॥३॥ अंग-पच्चंग-संठाणं चारुल्लवियपेहियं । बंभचेररओ थीणं चक्खुगिज्झं विवज्जए ॥४॥ व्याख्या - अङ्गानि शिरः प्रभृतीनि प्रत्यङ्गानि कुच - कक्षादीनि संस्थानमाकारविशेषः तेषां द्वन्द्वेऽङ्ग-प्रत्यङ्ग- संस्थानम् । चारु शोभनमुल्लपितं मन्मनभाषितादि, प्रेक्षितं चार्धकटाक्षनिरीक्षितादि, उल्लपितं प्रेक्षितं ब्रह्मचर्यरतः स्त्रीणां सम्बन्धि चक्षुर्ग्राह्यं सद् विवर्जयेत् । को भावः ? सज्जे हि चक्षुषि रूपग्रहणस्यावश्यम्भावित्वात् तद्दर्शनपरिहारः कर्तुमशक्य एव परं न तु रागवशात् पुनः पुनस्तन्निरीक्षणं युक्तमित्युक्तं च "असतं रूवमङ्कं चक्खुगोयरमागयं । राग-दोसे उ जे तत्थ ते बुहो परिवज्जए " ॥ १ ॥ ||४|| कूइयं रुइयं गीयं हसियं थणियं कंदियं । बंभचेररओ थीणं सोयगिज्झं विवज्जए ॥ ५ ॥ ४५७ व्याख्या - कूजितादीनि व्याख्यातान्येव, नवरं 'कुड्यान्तरादिष्विति' शेषः ॥५॥ हासं किड्डुं रई दप्पं सहसा वित्तासियाणि य । बंभचेरर थीणं नाणुचिंते कयाइ वि ॥ ६ ॥ व्याख्या -हासं प्रतीतं, क्रीडां द्यूतादिरूपां, रतिं कान्ताङ्गजनितां प्रीतिं, दर्पं १. अशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् । राग-द्वेषौ तु यौ तत्र तौ बुधः परिवर्जयेत् ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500