Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 494
________________ ४६० उत्तरज्झयणाणि-१ धर्मारामरतो न त्वेकाकी । तथा दान्त उपशान्तः ब्रह्मचर्ये समाहितः समाधिमान् ॥१५।। ब्रह्मचर्यविशुद्धिमाहात्म्यमाह देव-दाणव-गंधव्वा जक्ख-रक्खस-किनरा । बंभयारिं नमसंति दुक्करं जे करिति तं ॥१६॥ व्याख्या-देवा ज्योतिष्का वैमानिकाच, दानवा भवनपतयः, गन्धर्वाद्याः किंनरान्ता व्यन्तराः 'तदुपलक्षणं भूत-पिशाच-महोरग-किंपुरुषाणाम्' । ते सर्वेऽपि ब्रह्मचारिणं ब्रह्मचर्यवन्तं 'यतिमिति शेषः' नमस्यन्ति नमस्कुर्वन्ति । दुष्करं कातरजनदुरनुचरं यः करोति तदादिप्रक्रमाद् ब्रह्मचर्यमिति ॥१६॥ अध्ययनोपसंहारमाहएस धम्मे धुवे निच्चे सासए जिणदेसिए । सिद्धा सिझंति चाणेणं सिज्झिसंति तहावरे ॥१७॥ त्ति बेमि ॥ व्याख्या-एष धर्मो ब्रह्मचर्यलक्षणो ध्रुवः स्थिर: परवादिभिरप्रकम्प्यतया प्रमाणप्रतिष्ठित इत्यर्थः । नित्यः त्रिकालसम्भवात्, शाश्वतः सततभवनात् जिनदेशितः । अस्यैव त्रिकालविषयं फलमाह-सिद्धाः पूर्वमनन्तासूत्सर्पिण्यवसर्पिणीषु, सिध्यन्ति च महाविदेहेषु, अनेनेति ब्रह्मचर्यलक्षणेन धर्मेण सेत्स्यन्ति तथापरेऽनागताद्धायामनन्तायामुत्सर्पिण्यामिति ब्रवीमीति पूर्ववत् ॥ अत्र दृष्टान्तकथा बभूव पुरि चम्पायां सिंहसेनः क्षमाऽधिपः । यत्कृपाणः कृपां चक्रे विमुखेष्वेव शत्रुषु ॥१॥ नैर्ग्रन्थशासनात्यन्तानुरक्तो धर्मतत्त्ववित् । अमात्यो धर्मघोषाख्यस्तस्य कौशल्यभाजनम् ॥२॥ एकदा संसदासीने महीनेऽस्य सभासदः । मिथः प्रस्तावयामासुविचारं धर्मगोचरम् ॥३॥ बौद्धाक्षपाद-काणाद-कपिलादिमतानुगाः । सर्वे स्वाभिमतं धर्मं स्फूर्त्या निःशङ्कमूचिरे ॥४॥ धर्मघोषे तु दक्षेऽपि तूष्णीमाश्रित्य तिष्ठति । पर्यन्वयुङ्क्त भूपस्तमिव धर्मं पुमाकृतिम् ॥५॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International 2010_02

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500