Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 442
________________ ४०८ इतश्च तत्सम्मुखं प्रतस्थे स लग्नमायोधनं द्वयोः । चक्ररत्नं तदोत्पन्नं ब्रह्मदत्तो मुमोच तत् ॥ १२९ ॥ युग्मम् प्रापितो दीर्घनिद्रां स दीर्घस्तेनाचिरादपि । तत्कबन्धं क्षणं नृत्यन् साक्षात् श्वभ्रमदर्शयत् ॥१३०॥ सुरैर्जयजयारावपूर्वं कलकलध्वनिः । चक्रे नभसि गन्धर्वैः पुष्पवृष्टिः कृता तदा ॥१३१|| जयत्यसौ चक्रवर्ती द्वादशो ब्रह्मदत्तराट् । एवमुद्घोषयामास व्योम्नि विद्याधरैः सुरैः ॥ १३२ ॥ उत्तरज्झयणाणि - १ धिग् दुःशीलाचाराचरणधः श्वभ्रपातकृतनियमाम् । धिग् मां जनतानिन्द्यां विहितोभयवंशमालिन्याम् ॥१३३॥ इति पश्चात्तापवती दीक्षां लात्वा प्रवर्तिनीपार्श्वे । चुलनी शिवमाप्तवती स्वं निन्दन्ती तपस्तप्त्वा ॥१३४॥ युग्मम् ततोऽभिनन्द्यमानः स सुरैर्नीराज्यमानकः । वधूभिः सधवाभिर्द्राक् प्रविवेश स्वमन्दिरम् ॥१३५॥ सामन्तप्रमुखैश्चक्रे चक्रिराज्याभिषेचनम् । प्रसाधितं च षट्खण्डभरतं तेन चक्रिणा ॥ १३६॥ स्त्रीरत्नं पुष्पवत्याद्यं तदाऽन्तःपुरमागतम् । प्रादुरासन् यथायोगं शेषरत्नान्यपि क्रमात् ॥ १३७।। नवापि निधयस्तत्र समीयुश्चक्रिणोऽन्तिके । चक्रित्वमेवं भुञ्जानः सुखमास्ते स सर्वदा ॥१३८॥ अन्यदा च महद् दाम मन्दारस्यौपढौकितम् । देवेन प्रेक्ष्य चक्री स प्राग्भवां जातिमस्मरत् ॥१३९॥ आ ! ज्ञातं पद्मगुल्माख्ये विमाने दृष्टवानहम् । ईदृग्दामसुखाभोगभोगं तत्रानुभूतवान् ॥१४०॥ पुनश्चक्री सस्मार सर्वं प्राग्भवपञ्चकम् । ततश्च पाठयामास पौरान् श्लोकार्धमित्यसौ ॥१४९॥ 'आस्स्व दासौ मृगौ हंसौ मातङ्गावमरौ तथा । इति For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500