Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
चतुर्दशमिषुकारीयाध्ययनम्
४२९ "यदि पुत्राद् भवेत् स्वर्गो दानधर्मो न विद्यते । मुषितस्तत्र लोकोऽयं दानधर्मो निरर्थकः ॥१॥ बहुपुत्रा दुली गोधा ताम्रचूडस्तथैव च ।
तेषां च प्रथमं स्वर्गः पश्चाल्लोको गमिष्यति" ॥२॥ ततः को नाम ? न कश्चिदित्यर्थो यस्ते तवानुमन्येत शोभनमिदमित्यनुजानीयात् 'सविवेकः' इति गम्यमेतद्वेदाध्ययनादित्रयमिति ॥१२॥
चतुर्थोत्तरमाहखणमित्तसोक्खा बहुकालदुक्खा पगामदुक्खा अनिकामसोक्खा । संसारमुक्खस्स विपक्खभूया खाणी अणत्थाण उ कामभोगा ॥१३॥
व्याख्या-क्षणमात्रं सौख्यं येषु ते तथा, बहुकालं नरकादिषु दुःखं शारीरादि येभ्यस्ते तथा । तथा प्रकाममतिशयेन दुःखं येभ्यस्ते तथा, अनिकामसौख्या अप्रकृष्टसुखाः संसारान्मोक्षो वियोगो यस्मात् संसारमोक्षो मुक्तिरित्यर्थस्तस्य विपक्षभूतास्तत्प्रतिबन्धकतया प्रतिकूलाः । यतः खानिराकरोऽनर्थानामैहिक-प्रेत्यदुःखरूपाणां 'तुरेवार्थे' के ? इत्याह-कामभोगा उक्तरूपाः ॥१३।।
अनर्थखानित्वमेव स्पष्टयितुमाहपरिव्वयंते अनियत्तकामे अहो य राउ परितप्पमाणे । अन्नप्पमत्ते धणमेसमाणे पप्पोति मच्चुं पुरिसे जरं च ॥१४॥ इमं च मे अस्थि इमं च नत्थि इमं च मे किच्च इमं अकिच्चं । तं एवमेवं लालप्पमाणं हरा हरंति त्ति कहं पमाए ॥१५॥
अनयोर्व्याख्या-परिव्रजन् विषयसुखार्थमितस्ततो भ्राम्यन्ननिवृत्तकामोऽनुपरतेच्छ: सन् 'अहो य राउ'त्ति आर्षत्वादह्नि रात्रौ च परितप्यमानस्तत्प्राप्त्यर्थं समन्ताच्चिन्ताग्निना दह्यमानः । 'अन्नप्पमत्ते'त्ति अन्येषां स्वजनादीनामर्थे प्रमत्तस्तत्कृत्यासक्तचेता धनमेषयन् विविधोपायैर्गवेषयमाणः । 'पप्पोति'त्ति प्राप्नोति मृत्यु पुरुषो जरां च वयोहानिरूपाम् ।। किञ्च इदं च मेऽस्ति धान्यादि, इदं च मे नास्ति हेमादि । इदं च मे कृत्यं गृहादि, इदं चाकृत्यमारब्धमपि वाणिज्यादि कर्तुं नोचितम् । तं पुरुषमेवमेव वृथैव लालप्यमानमत्यर्थं वदन्तं हरन्त्यपनयन्तयायुरिति हरा दिन-रजन्यादयो व्याधिविशेषा वा हरन्ति जन्मान्तरं नयन्तीत्यस्माद् हेतोः कथं प्रमादः प्रक्रमाद् 'धर्मे कर्तुमुचितः' इति शेष इति गाथाद्वयार्थः ॥१४-१५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500