Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 468
________________ ४३४ उत्तरज्झयणाणि-१ ततो भृगुव्रतेच्छाह्मणीमाहपहीणपुत्तस्स हु नत्थि वासो वासिट्टि ! भिक्खायरियाइ कालो । साहाहि रुक्खो लहए समाहि छिन्नाहि साहाहिं तमेव खाणुं ॥२९॥ पंखाविहूणो व जहेह पक्खी भिच्चविहीणु व्व रणे नरिंदो । विवन्नसारो वणिउ व्व पोए पहीणपुत्तो मि तहा अहं पि ॥३०॥ अनयोर्व्याख्या-प्रहीणौ भ्रष्टौ पुत्रौ यस्मात् स प्रहीणपुत्रस्तस्य पुत्राभ्यां प्रहीणस्य त्यक्तस्य मम 'गृहे' इति गम्यम् नास्ति वासोऽवस्थानं हे वासिष्ठि ! वाशिष्ठगोत्रोद्भवे ! भिक्षाचर्याया उपलक्षणाद् 'व्रतग्रहणस्य' कालः प्रस्तावो 'वर्तते इति शेषः' यतः शाखाभिर्वृक्षो लभते समाधि स्वास्थ्यं छिन्नाभिः शाखाभिस्तमेव वृक्षं 'खाणुं' ति स्थाणुं कीलकं जनो व्यपदिशतीत्युपस्कारः । यथा हि तास्तस्य शोभा-संरक्षणादिना समाधिहेतवस्तथा ममाप्येतौ सुतावतस्तद्विरहितोऽहमपि स्थाणुकल्प एवेति किं ममैवंविधस्य गृहवासेनेति भावः ॥ किञ्च पक्षाभ्यां विहिनो रहितो वा यथेह लोके पक्षी पलायितुमशक्तो मार्जारादिभिरभिभूयते । यथा भृत्यविहीनो वा रणे नरेन्द्रो राजा शत्रुभिः पराजीयते । विपन्नसारो विनष्टहेमरत्नादिसारो वणिग् वा पोते प्रवहणे 'भिन्ने इति गम्यते' तीरमप्राप्नुवन् जलधिमध्ये एव विषिदति । पुत्रप्रहीणोऽस्मि तथाऽहमपि वाशब्दाद् दृष्टान्तान्तरसूचकाः । पक्षभृत्यार्थसारभूताभ्यां पुत्राभ्यां रहितोऽहमप्येवंविध एवेति गाथाद्वयार्थः ॥२९-३०॥ वाशिष्ठ्याहसुसंभिया कामगुणा इमे ते संपिडिया अग्गरसप्पभूया । भुंजामु ता कामगुणे पगामं पच्छा गमिस्सामु पहाणमग्गं ॥३१॥ व्याख्या-सुम्भृताः सुष्ठ अतिशयेन संस्कृताः कामगुणा इमे स्वगृहवर्तिनः प्रत्यक्षास्ते तव । तथा सम्पिण्डिताः पुञ्जीकृताः 'अग्गरस' त्ति अग्र्याः प्रधाना रसाश्च मधुरादयः प्रभूताः प्रचुराः । यस्मात् स्वाधीनाः सन्ति । 'भुंजामु' त्ति भुञ्जीमहि 'ता' तस्मात् कामगुणानुक्तरूपान् प्रकाममतिशयेन ततो भुक्तभोगाः पश्चाद् वृद्धावस्थायां गमिष्यामः प्रतिपत्स्यामहे प्रधानमार्ग प्रव्रज्यारूपं मुक्तिपथमिति ॥३१।। भृगुराहभुत्ता रसा भोइ जहाइ णो वओ न जीवियट्ठा पयहामि भोए । लाभं अलाभं च सुहं च दुक्खं संविक्खमाणो चरिसामि मोणं ॥३२॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500