________________
४३४
उत्तरज्झयणाणि-१ ततो भृगुव्रतेच्छाह्मणीमाहपहीणपुत्तस्स हु नत्थि वासो वासिट्टि ! भिक्खायरियाइ कालो । साहाहि रुक्खो लहए समाहि छिन्नाहि साहाहिं तमेव खाणुं ॥२९॥ पंखाविहूणो व जहेह पक्खी भिच्चविहीणु व्व रणे नरिंदो । विवन्नसारो वणिउ व्व पोए पहीणपुत्तो मि तहा अहं पि ॥३०॥
अनयोर्व्याख्या-प्रहीणौ भ्रष्टौ पुत्रौ यस्मात् स प्रहीणपुत्रस्तस्य पुत्राभ्यां प्रहीणस्य त्यक्तस्य मम 'गृहे' इति गम्यम् नास्ति वासोऽवस्थानं हे वासिष्ठि ! वाशिष्ठगोत्रोद्भवे ! भिक्षाचर्याया उपलक्षणाद् 'व्रतग्रहणस्य' कालः प्रस्तावो 'वर्तते इति शेषः' यतः शाखाभिर्वृक्षो लभते समाधि स्वास्थ्यं छिन्नाभिः शाखाभिस्तमेव वृक्षं 'खाणुं' ति स्थाणुं कीलकं जनो व्यपदिशतीत्युपस्कारः । यथा हि तास्तस्य शोभा-संरक्षणादिना समाधिहेतवस्तथा ममाप्येतौ सुतावतस्तद्विरहितोऽहमपि स्थाणुकल्प एवेति किं ममैवंविधस्य गृहवासेनेति भावः ॥ किञ्च पक्षाभ्यां विहिनो रहितो वा यथेह लोके पक्षी पलायितुमशक्तो मार्जारादिभिरभिभूयते । यथा भृत्यविहीनो वा रणे नरेन्द्रो राजा शत्रुभिः पराजीयते । विपन्नसारो विनष्टहेमरत्नादिसारो वणिग् वा पोते प्रवहणे 'भिन्ने इति गम्यते' तीरमप्राप्नुवन् जलधिमध्ये एव विषिदति । पुत्रप्रहीणोऽस्मि तथाऽहमपि वाशब्दाद् दृष्टान्तान्तरसूचकाः । पक्षभृत्यार्थसारभूताभ्यां पुत्राभ्यां रहितोऽहमप्येवंविध एवेति गाथाद्वयार्थः ॥२९-३०॥
वाशिष्ठ्याहसुसंभिया कामगुणा इमे ते संपिडिया अग्गरसप्पभूया । भुंजामु ता कामगुणे पगामं पच्छा गमिस्सामु पहाणमग्गं ॥३१॥
व्याख्या-सुम्भृताः सुष्ठ अतिशयेन संस्कृताः कामगुणा इमे स्वगृहवर्तिनः प्रत्यक्षास्ते तव । तथा सम्पिण्डिताः पुञ्जीकृताः 'अग्गरस' त्ति अग्र्याः प्रधाना रसाश्च मधुरादयः प्रभूताः प्रचुराः । यस्मात् स्वाधीनाः सन्ति । 'भुंजामु' त्ति भुञ्जीमहि 'ता' तस्मात् कामगुणानुक्तरूपान् प्रकाममतिशयेन ततो भुक्तभोगाः पश्चाद् वृद्धावस्थायां गमिष्यामः प्रतिपत्स्यामहे प्रधानमार्ग प्रव्रज्यारूपं मुक्तिपथमिति ॥३१।।
भृगुराहभुत्ता रसा भोइ जहाइ णो वओ न जीवियट्ठा पयहामि भोए । लाभं अलाभं च सुहं च दुक्खं संविक्खमाणो चरिसामि मोणं ॥३२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org