________________
४३३
चतुर्दशमिषुकारीयाध्ययनम्
व्याख्या - एकत एकस्मिन् स्थाने समुष्य सहैवोषित्वा । 'दुह 'त्ति द्वयं च द्वयं च द्वये आवां युवां च सम्यक्त्वेन संयुताः उपलक्षणाद् देशविरत्या च 'युक्ताः' पश्चाद् वृद्धत्वे हे जातौ पुत्रौ ! गमिष्यामो वयं 'ग्रामादिषु मासकल्पादिक्रमेणेति शेष:' अर्थात् प्रव्रज्य भिक्षमाणा याचमानाः 'पिण्डादिकमिति गम्यम्' कुले कुले गृहे गृहे अज्ञातोञ्छवृत्त्येत्यर्थः ॥ २६ ॥
कुमारावाहतुः
जस्सत्थि मच्चुणा सक्खं जस्स चत्थि पलायणं । जो जाणइ न मरिस्सामि सो हु कंखे सुए सिया ॥२७॥ अज्जेव धम्मं पडिवज्जयामो जहिं पवन्ना न पुणभवामो । अणागयं नेव य अत्थि किंची सद्धाखमं नो विणइत्तु रागं ॥ २८ ॥ अनयोर्व्याख्या -यस्यास्ति मृत्युना सख्यं मित्रत्वं यस्य चाऽस्ति पलायनं नाशनं 'मृत्योः सकाशादिति प्रक्रमः ' । यो जानाति यथाऽहं न मरिष्यामि । 'सो हु कंखे'त्ति 'हुरेवार्थे' स एव काङ्क्षति प्रार्थयते 'सुए सिय'त्ति श्व आगामिनि दिने स्याद् 'इदमिति गम्यते ' ॥ अतोऽद्यैव धर्मं यतिधर्मं प्रतिपद्यामहेऽङ्गीकुर्महे । 'जहिं'त्ति आर्षत्वाद् यं धर्मं प्रपन्ना आश्रिताः । 'न पुणब्भवामो' त्ति न पुनर्भविष्यामो न पुनर्जन्म प्राप्स्यामस्तद्धेतुभूतकर्मापगमात् । जरा-मरणाद्युपलक्षणमिदम् । किं चानागतमप्राप्तं नैव चास्ति किञ्चिदभीष्टमपि विषयसुखाद्यनादौ संसारे सर्वस्याप्यनन्तशः प्राप्तपूर्वत्वात् । ततो न तदर्थं गृहावस्थानं युक्तमिति भावः । उक्तञ्च–
-
"काऽसौ गतिर्जगति या शतशो न जाता ? क्षेत्रं किमत्र न हि यच्छतशोऽवगाढम् ।
सा सम्पदत्र न हि या शतशो न भुक्ता; प्रायो ऽखिलात्मभिरशेषसुतादियोगाः " ॥१॥
अतः श्रद्धाऽभिलाषस्तया 'हेतुभूतयेति गम्यते' क्षमं युक्तं 'श्रेयः कर्तुमिति शेषः ' । नोऽस्माकं विनीयापसार्य रागं स्वजनाभिष्वङ्गलक्षणम् । तत्त्वतो हि कः कस्य स्वजनोऽन्यो वेति । उक्तं चागमे - " अयं णं भंते ! जीवे एगमेगस्स जीवस्स माइत्ताए भाइत्ताए पुत्तत्ताए धूयत्ताए सुण्हत्ताए भज्जताए उववण्णपुव्वे ? हंता गोयमा ! असतिं अदुवा अनंतखुत्तो त्ति" । इति गाथाद्वयार्थः ॥२७-२८॥
१. अयं भदन्त ! जीव एकैकस्य जीवस्य मातृतया भ्रातृतया पुत्रतया दुहितृतया स्नुषातया भार्यातया उपपन्नपूर्वः ? । हन्त गौतम ! असकृद् अथवानन्तकृत्व इति ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org