________________
चतुर्दशमिषुकारीयाध्ययनम्
४३५ व्याख्या-भुक्ताः सेविता रसा मधुरादयः 'शेषकामगुणापलक्षणम्' 'भोइ' त्ति हे भवति ! वासिष्ठि ! जहाति त्यजति नोऽस्मान् वयोऽभिमतक्रियाकरणक्षमम् 'उपलक्षणत्वाज्जीवितं च' ततो यावन्नैतत् त्यजति तावत् प्रव्रजाम इत्याशयः । तत् किं ? वयःस्थैर्याद्यर्थं दीक्षाङ्गीकार इत्याशङ्क्याह-न जीवितमसंयमजीवितमुपलक्षणाद् 'वयश्च' तदर्थं प्रजहामि त्यजामि भोगान् शब्दादीन् । किन्तु लाभमभीष्टवस्त्ववाप्तिरूपमलाभं च तदभावरूपम् । सुखमभिलषितविषयभोगजम्, दुःखं च तद्बाधात्मकं 'संविक्खमाणो' त्ति समतया समीक्षमाणः पश्यन् । 'उपलक्षणाज्जीवित-मरणादीनां च समतामेव भावयंश्च' चरिष्याम्यासेविष्ये मौनं मुनिभावम् । मुक्त्यर्थमेव मम दीक्षाप्रतिपत्तिरिति भावः ॥३२॥
वाशिष्ठ्याहमा हू तुमं सोयरियाण संभरे जुन्नो व हंसो पडिसुत्तगामी । भुंजाहि भोगाइं मए समाणं दुक्खं खु भिक्खायरिया विहारो ॥३३॥
व्याख्या-'मा इति निषेधे, हुरिति वाक्यालङ्कारे' 'तुम' ति त्वं सौदर्याणामेकोदरोत्पन्नानाम् 'उपलक्षणत्वाच्छेषस्वजनानां भोगानां च' 'संभरे' त्ति अस्मार्षीः ? क इव 'जुन्नो व हंसो' ? त्ति जीर्णो जरामुपगतो हंस इव प्रतिस्त्रोतोगामी सन् । को भावो यथाऽसौ नदीस्रोतसि प्रतिकूलं गमनमारभ्यापि तत्राशक्तः पुनरनुस्रोत एवानुधावति, एवं त्वमपि संयमभारं वोढुमक्षमः पुनः सोदरादीन् भोगांश्च स्मरिष्यसि । ततो भुक्ष्व भोगान् मया समानं सह । दुःखं दुःखहेतुरेव भिक्षाचर्या विहारो ग्रामादिष्वप्रतिबद्धत्वेनोपलक्षणाच्छिरोलोचादीति ॥३३॥
पुनर्भुगुराह
जहा य भोई तणुयं भुयंगो निम्मोइणि हिच्च पलेइ मुत्ते । एमए जाया पयहंति भोए ते हं कहं नाणुगमिस्समिक्को ॥३४॥ छिदित्तु जालं अबलं व रोहिया मच्छा जहा कामगुणे पहाय । धोरेयसीला तवसा उदारा धीरा हु भिक्खायरियं चरंति ॥३५॥
अनयेाख्या-यथा च 'भोई' त्ति हे भवति ! तनुः शरीरं तत्र जातां तनुजां भुजङ्गः सर्पो निर्मोचनीं निर्मोकं हित्वा पर्येति समन्ताद् गच्छति । 'मुत्तो' ति मुक्तो निरपेक्षतयाऽभिष्वङ्गरहितः । 'एमए' त्ति एवमेतौ जातौ पुत्रौ ‘पयहति' त्ति प्रजहीतस्त्यजतो भोगान् । ततस्तौ भोगांस्त्यजन्तावहं कथं नानुगमिष्यामि ? प्रव्रज्याग्रहणेन
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org