________________
४३६
उत्तरज्झयणाणि-१ नानुसरिष्याम्येकोऽद्वितीयो यदि तावदनयोः कुमारयोरभुक्तभोगयोरपीयान् विवेकस्तत् किमिति भुक्तोभोगोऽप्यहमेतान् न त्यक्ष्यामि ? । किं वा ममासहायस्य गृहवासेनेति भावः ॥ तथा च्छित्वा पुच्छादिना जालमबलमिव जीर्णत्वादिनाऽसारमिव 'बलीयोऽपीति गम्यम्' । रोहिता रोहितजातीया मत्स्या यथा 'चरन्तीति सम्बन्धः' । 'यत्तदोनित्यसम्बन्धात् तथेति गम्यम्' । ततस्तथा जालप्रायान् कामगुणान् प्रहाय परित्यज्य । धुरि वहन्तीति धौरेयास्तेषामिव शीलमुत्क्षिप्तभारनिर्वाहलक्षणं स्वभावो येषां ते धौरेयशीलाः तपसोदाराः प्रधाना धीराः सत्ववन्तो 'हुः' यस्माद् भिक्षाचर्यां चरन्त्यासेवन्ते व्रतग्रहणेनातोऽहमपीत्थं व्रतमेव ग्रहीष्ये इति भावः । इति गाथाद्वयार्थः ॥३४-३५।।
इत्थं प्रबुद्धा ब्राह्मण्याहनहेव कुंचा समइक्कमंता तयाणि जालाणि दलित्तु हंसा ।
पलिंति पुत्ता य पई य मज्झं ते हं कहं नाणुगमिस्समिक्का ? ॥३६॥
व्याख्या-नभसीवाकाश इव क्रौञ्चाः पक्षिविशेषाः समतिक्रामन्तस्तांस्तान् देशानुल्लङ्घयन्तस्ततानि विस्तीर्णानि जालानि बन्धनविशेषाणि दलयित्वा खण्डशः कृत्वा 'चस्य गम्यमानत्वाद्' हंसाश्च 'पलिंति' त्ति परियन्ति समन्ताद् गच्छन्ति । पुत्रौ च पतिश्च मम सम्बन्धिनः संवेगादेतज्जालोपमविषयाभिष्वङ्ग भित्त्वा नभःसदृक्षे निरुपलेपतया संयमाध्वनि तानि तानि संयमस्थानान्यतिक्रामन्त्यतस्तानहं कथं नानुगमिष्याम्येका सती ? स्त्रीणां हि भर्ता वा पुत्रो वा गतिरिति भावः ॥३६।।
इत्थं चतुर्णामप्येकवाक्यतया प्रव्रज्याप्रतिपत्तौ यदभूत् तदाहपुरोहियं तं ससुयं सदारं सोच्चाऽभिनिक्खम्म पहाय भोए ।
कुडुंबसारं विउलुत्तमं तं रायं अभिक्खं समुवाय देवी ॥३७॥
व्याख्या-पुरोहितं तं भृगुनामानं ससुतं सदारं श्रुत्वाऽभिनिष्क्रम्य गृहान्निर्गत्य प्रहाय प्रकर्षेण त्यक्त्वा भोगान् शब्दादीन् 'प्रव्रजितमिति गम्यते' । कुटुम्बसारं धनधान्यादि विपुलं च विस्तीर्णतया उत्तमं च प्रधानतया विपुलोत्तमं तदिति यत् पुरोहितेन त्यक्तं 'गृह्णन्तमिति शेषः' । 'रायं' तं राजानमभीक्ष्णं पुनः पुनः समुवाच सम्यगुक्तवती देवी कमलावती ॥३७॥
किमुक्तवतीत्याहवंतासी पुरिसो रायं ! न सो होइ पसंसिओ । माहणेण परिच्चत्तं धणं आयउमिच्छसि ॥३८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org