________________
४३७
चतुर्दशमिषुकारीयाध्ययनम्
सव्वं जगं जइ तुहं सव्वं वा वि धणं भवे । सव्वं पि ते अपज्जत्तं नेव ताणाय तं तव ॥३९॥ मरिहिसि रायं ! जया तया वा मणोरमे कामगुणे पहाय । इक्को हु धम्मो नरदेव ताणं न विज्जई अन्नमिहेह किंचि ॥४०॥
आसां व्याख्या-वान्तमुदगीर्णमशितं भोक्तं शीलस्येति वान्ताशी पुरुषः ‘य इति गम्यम्' । हे राजन् ! न स भवति प्रशंसितः श्लाघितस्तथा त्वमपीति शेषः । कथमहं वान्ताशीत्याह-ब्राह्मणेन परित्यक्तं धनमादातुं गृहीतुमिच्छसि । त्यक्तधनं हि गृहीतोज्झितत्वाद् वान्तमिव तदादित्सोस्तव वान्ताशित्वादश्लाघ्यत्वाच्चैतन्नोचितमिति भावः ॥ किञ्च सर्वं जगद् यदि तव, सर्वं वाऽपि धनं हेमादि भवेद् 'यदि तवेतीहापि योज्यम्' । तदा सर्वमपि 'ते' तवापर्याप्तमसमर्थं 'इच्छापूरणं प्रतीति शेषः' आकाशस्येव तस्या अपर्यवसितत्वात् । तथा नैव त्राणाय जरा-मरणाद्यपनोदाय तत्सर्वं जगद्धनं वा तवेति ॥ अन्यथा मरिष्यसि राजन् ! यदा [तदा] वा यस्मिंस्तस्मिन् वा काले जातस्य हि ध्रुवं मृत्युरिति । उक्तं हि
"कश्चित् सखे ! त्वया दृष्टः श्रुतः सम्भावितोऽथवा ? ।
क्षितौ वा यदि वा स्वर्गे यो जातो न मरिष्यति" ॥१॥ किं कृत्वा ? इत्याह-मनोरमान् चित्ताह्लादकान् कामगुणान् प्रहाय प्रकर्षेण त्यक्त्वा त्वमेकाक्येव मरिष्यसि न किञ्चिदन्यत् त्वया सह यास्यतीत्याशयः । तथा ‘एको हु' त्ति 'हुरेवार्थे' एक एव धर्मः सम्यग्दर्शनादिरूपो भो नरदेव भूपते ! त्राणं शरणमापत्परिरक्षणक्षमं । न विद्यते नास्त्यन्यद् धर्मादपरमिहलोके इहेत्यस्मिन् मृत्यौ किञ्चिदिति स्वजनं धनादिकं त्राणमिति ततो धर्म एवानुष्ठेय इति भाव इति गाथात्रयार्थः ॥३८-३९-४०॥
यतो धर्माद् ऋते नान्यत् त्राणमत आहनाहं रमे पक्खिणि पंजरे वा संताणछिन्ना चरिस्सामि मोणं । अकिंचणा उज्जुकडा निरामिसा परिग्गहारंभनियत्तदोसा ॥४१॥ दवग्गिणा जहा रणे डज्झमाणेसु जंतुसु । अन्ने सत्ता पमोयंति रागद्दोसवसं गया ॥४२॥
अनयोक्ख्या -नाहं रमे नाहं रतिमवाप्नोमि पक्षिणीव सारिकादिरिव पञ्जरे । को भावो ? यथासौ दुःखोत्पादिनि पञ्जरे न रतिं लभते । एवमहमपि जरा-मरणाद्युपद्रवविद्रुते भवपञ्जरे इति अतश्छिन्नसन्ताना विनाशितस्नेहसन्ततिः सती 'छिन्नशब्दस्य
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org