________________
४३८
उत्तरज्झयणाणि-१ परनिपातः सूत्रत्वात्' चरिष्याम्यासेविष्ये मौनं मुनिभावमकिञ्चनो न विद्यते किञ्चन द्रव्यतो हेमादि, भावतः कषायादिरूपमस्या इति कृत्वा । ऋजु मायारहितं कृतमस्या इति ऋजुकृता । निष्क्रान्ता आमिषाद् गृद्धिहेतोविषयादेनिरामिषा । परिग्रहारम्भयोर्दोषा अभिष्वङ्ग-निस्त्रिंशतादयस्तेभ्यो निवृत्ता परिग्रहारम्भदोषनिवृत्ता 'प्राकृतत्वात् तस्य प्राग् निपातः' ॥ अपरं च दवाग्निना दावानलेन यथारण्ये दह्यमानेषु भस्मसात् क्रियमाणेषु जन्तुष्वन्ये सत्त्वाः प्राणिनोऽविवेकिनः प्रमोदन्ते प्रकर्षेण हृष्यन्ति । किम्भूताः ? रागद्वेषयोर्वशं आयत्ततां गताः प्राप्ताः ॥४१-४२।।
दृष्टान्तमुक्त्वा दार्टान्तिकमाहएवमेव वयं मूढा काम-भोगेसु मुच्छिया । डज्झमाणं न बुज्झामो राग-द्दोसग्गिणा जगं ॥४३॥
व्याख्या-एवमेव वयं 'मूढ'त्ति मूढानि मोहवशगानि काम-भोगेषु 'मुच्छिय'त्ति मूछितानि गृद्धानि दह्यमानं न बुध्यामहे राग-द्वेषावग्निस्तेन किं तज्जगत् प्राणिवर्गं । यो हि सविवेको रागादिमांश्च न स्यात्, स दवाग्निना दह्यमानानन्यजन्तूनवलोक्यात्मरक्षणोपायतत्पर एव स्यान्न तु प्रमादवशग: सन् प्रमोदते, यस्त्वत्यन्तमज्ञो रागादिमांश्च स तु हृष्यन्न तदुपशमोपाये प्रवर्तते । ततो वयमपि भोगापरित्यागादेवंविधान्येवेति भावः ॥४३।।
ये तु नैवंविधास्ते किं कुर्वन्तीत्याहभोगे भुच्चा वमित्ता य लहुभूयविहारिणो । आमोयमाणा गच्छंति दिया कामकमा इव ॥४४॥
व्याख्या भोगान् शब्दादीन् भुक्त्वा पुनरुत्तरकालं वान्त्वा चापहाय लघुर्वातस्तद्वद् भूतमेषां ते लघुभूतास्तदुपमाः सन्तो विहरन्तीत्येवंशीला लघुभूतविहारिणोऽप्रतिबद्धविहारिण इत्यर्थः । आ समन्तान्मोदमानास्तथाविधानुष्ठानेन हृष्यन्तो गच्छन्ति 'विवक्षितं स्थानमिति शेषः' । 'दिया कामकमा इव' त्ति इवस्य भिन्नक्रमत्वाद् द्विजा इव पक्षिण इव कामोऽभिलाषस्तेन क्रामन्तीति कामक्रमाः । यथा द्विजाः स्वेच्छया यत्र यत्र रोचते, तत्र तत्रामोदमाना भ्राम्यन्त्येवमेतेऽप्यभिष्वङ्गाभावाद् यत्र यत्र संयमनिर्वाहस्तत्र तत्र यान्तीत्याशयः ॥४४॥
पुनर्बहिरास्थां निराकुर्वन्त्याहइमे य बद्धा फंदंति मम हत्थज्जमागया । वयं च सत्ता कामेसु भविस्सामो जहा इमे ॥४५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org