Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 465
________________ चतुर्दशमिषुकारीयाध्ययनम् ४३१ सत्त्वः, कुतोऽमूर्तभावादिन्द्रियग्राह्यरूपाद्यभावात् । अमूर्तभावादपि च भवति नित्यः । तथाहि-यद् द्रव्यत्वे सत्यमूर्तं तन्नित्यं यथा व्योम । न चैवममूर्तत्वादेव तस्य बन्धासम्भवः । यतः 'अज्झत्थ'त्ति अध्यात्मशब्देनात्मस्थमिथ्यात्वादयस्ततस्तद्धेतुस्तत्कारणको नियतो निश्चितोऽस्य सम्बन्धः कर्मसंश्लेषः, यथा ह्यमूर्तस्यापि व्योम्नोमूर्ते घटादिभिः सम्बन्धः । एवमममूर्तस्याप्यस्य मूर्तेः कर्मभिरसौ न विरुद्ध्यते । तथा चोक्तम् "अरूपं हि यथाकाशं रूपिद्रव्यादिभाजनम् । तथा ह्यरूपी जीवोऽपि रूपिकर्मादिभाजनम्" ॥१॥ तथा संसारश्चतुर्गतिभ्रमणरूपस्तद्धेतुं तत्कारणं वदन्ति बन्धं कर्मबन्धम्, एतेन निष्क्रियत्वमपि निराकृतमिति ||१९|| यत एवमस्त्यात्मा नित्योऽत एव च भवान्तरयायी तस्य च बन्धो बन्धस्य च मोक्ष इत्यत: जहा वयं धम्ममयाणमाणा पावं पुरा कम्ममकासि मोहा । ओरुज्झमाणा परिरक्खियंता तं नेव भुज्जो वि समायरामो ॥२०॥ व्याख्या-यथा वयं धर्मं सम्यक्त्वाद्यजानानाः पापं पापहेतुं पुरा पूर्वं कर्माकार्ष्ण कृतवन्तो मोहादज्ञानादवरुध्यमाना गृहान्निर्गममलभमानाः परिरक्ष्यमाणा भृत्यैः परिपाल्यमानास्तत् पापकर्म नैव भूयोऽपि पुनरपि समाचरामो यथावद् विदितवस्तुत्वादिति । अत्र द्वित्वे बहुत्वमस्मत्प्रयोगाददुष्टम् ॥२०॥ किञ्च अब्भाहयंमि लोगंमि सव्वओ परिवारिए । अमोहाहिं पडंतीहिं गिहंसि न रहूं लभे ॥२१॥ व्याख्या-अभ्याहते आभिमुख्येन पीडिते लोके सर्वतः सर्वासु दिक्षु परिवारिते परिवेष्टिते । अमोघाभिरवन्ध्यप्रहरणोपमाभिः पतन्तीभिरागच्छन्तीभिर्गृहवासे न रतिमासक्ति 'लभे'त्ति लभावहे, यथा हि वागुरावेष्टितो मृगोऽमोघैः प्रहरणैाधेनाभ्याहतो न रतिं लभते एवमावामपीति ॥२१॥ भृगुराह केण अब्भाहओ लोओ केण वा परिवारिओ ? । का वा अमोहा वुत्ता जाया चिंतावरो हुमि ॥२२॥ व्याख्या-केन व्याधतुल्येनाभ्याहतो लोकः ? केन वा वागुरारूपेण परि Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500