Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 449
________________ ४१५ त्रयोदशं चित्र - संभूतीयमध्ययनम् सम्भूत ! महानुभागं महर्द्धिकमत एव पुण्यफलोपेतं चित्रमपि जानीहि तथैव हे राजन् ! किमित्यत आह—ऋद्धिः सम्पत्, द्युतिर्दीप्तिस्तस्यापि चित्रस्य ममापीति भावश्चेति यस्मात् प्रभूता बह्वी । गृहस्थभावे त्वद्वन्ममाप्येवंविधत्वादिति भाव इति गाथाद्वयार्थः ॥१०-११॥ यद्येवं तत् किं प्रव्रजित इत्याह महत्थरूवा वयणप्पभूया गाहाणुगीया नरसंघमज्झे । भिक्खुणो सीलगुणोववेया इहज्जयंते समणो म्हि जाओ ॥ १२ ॥ व्याख्या- महार्थरूपा अनन्तद्रव्यपर्यायात्मकतया बह्वर्थस्वरूपा 'वयणप्पभूय' त्ति वचनेनाप्रभूता स्तोकाक्षरेत्यर्थः । गाथाऽर्थाद् धर्मार्थाभिधायिनी सूत्रपद्धतिः । अन्विति तीर्थकृद्-गणधरादिभ्यः पश्चाद् गीता प्रतिपादिता 'स्थविरैरिति शेषः ' क्व ? नरसङ्गमध्ये | यां गाथां 'श्रुत्वेति शेष:' भिक्षवः शीलगुणोपेता इह प्रवचने यतन्ते यत्नवन्तो भवन्ति । तामेव 'श्रुत्वेति गम्यम्' श्रमणोऽस्म्यहं जातो न तु दुःखदग्ध इति भावः ॥ १२॥ चक्री स्वसमृद्ध्या मुनिं निमन्त्रयितुमाह उच्चोदए महु कक्के य बंभे पवेइया आवसहा य रम्मा । इमं हिं चित्तधणप्पभूयं पसाहि पंचालगुणोववेयं ॥१३॥ व्याख्या - उच्चोदयो मधुः कर्कश्चशब्दान्मध्यो ब्रह्मा च पञ्च प्रासादाः प्रवेदिता मम वर्धकिपुरःसरैः सुरैरुपनीता आवसथाश्च शेषभवनप्रकाराः रम्या रमणीयाः । एते तु यत्र चक्रिणे रोचन्ते तत्रैव स्युरिति वृद्धाः । किञ्चेदं गृहं प्रासादरूपं प्रभूतं चित्रमनेकप्रकारं धनं यस्मिंस्तत् प्रभूतचित्रधनं 'प्रभूतशब्दस्य परनिपातः प्राकृतत्वात् ' प्रसाधि पालय । पञ्चालो देशस्तस्मिन् गुणा इन्द्रियोपकारिणो रूपादयस्तैरुपेतम् । कोऽर्थः ? पञ्चालेषु यानि विशिष्टवस्तूनि तेषां सर्वेषां तत्र सद्भावात् । तदा च पञ्चालदेशस्यैवातिसमृद्धत्वात् तद्ग्रहणमन्यथा भरतगतोत्तमवस्तु तद्गेहे तदाऽऽसीदिति ॥१३॥ किञ्च नहिं गीएहिं य वाइएहिं नारीजणाई परिवारयंतो । भुंजाहि भोगाई इमाई भिक्खू ! मम रोयई पव्वज्जा हु दुक्खं ॥ १४॥ व्याख्या-नाट्यैर्द्वात्रिंशत्पात्रोपलक्षितैर्गीतैर्ग्रामस्वरादिरूपैर्वादित्रैर्मृदङ्गादिभिर्ना रीजनान् परिवारयन् भुङ्क्ष्व भोगानिमान् हे भिक्षो ! 'इह यद् गजाश्वाद्यनपेक्ष्य स्त्र्यभिधानं तत् तस्य स्त्रीलुब्धत्वात् तदाक्षेपकत्वम्' मह्यं रोचते, प्रव्रज्या 'हुरेवार्थे' दुःखमेव न मनागपि सुखमिति भावः ॥१४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500