Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
४२०
उत्तरज्झयणाणि-१ चतुर्थं चक्रिणं महद्धिकं काम-भोगेषु गृद्धेनाकाङ्क्षावता ‘मयेति योज्यम्' निदानं प्रेत्यभोगाशंसात्मकमशुभमशुभानुबन्धि कृतमिति ॥२८॥
तत् प्रतिक्रान्तं भविष्यतीत्यत आहतस्स मे अप्पडिक्वंतस्स इमं एयारिसं फलं । जाणमाणो वि जं धम्मं कामभोगेसु मुच्छिओ ॥२९॥
व्याख्या-सुब्ब्यत्ययेन तस्मान्निदानान्मे ममाप्रतिक्रान्तस्याप्रतिनिवृत्तस्येदमेतादृशं वक्ष्यमाणफलं कार्यम् । यत् कीदृगित्याह-जानन्नपि यदहं धर्मं श्रुतधर्मादिकं कामभोगेषु मूच्छितो गृद्धः । तदेतत् कामभोगेषु मूर्च्छनं मम निदानकर्मणः फलमिति ।।२९।।
निदानफलं दृष्टान्तेनाहनागो जहा पंकजलावसन्नो दटुं थलं नाभिसमेइ तीरं । एवं वयं कामगुणेसु गिद्धा न भिक्खुणो मग्गमणुव्वयामो ॥३०॥
व्याख्या-नागो हस्ती यथा पङ्कप्रधानं जलं पङ्कजलं तत्रावसन्नो निमग्नः सन् दृष्ट्वा स्थलं न नैवाभिसमेति प्राप्नोति तीरं पारमेवं वयं कामगुणेषु गृद्धा मूच्छिता न भिक्षोः साधोर्मार्ग सदाचारलक्षणमनुव्रजामोऽनुसराम इति । पङ्कजलोपमकामभोगपरतन्त्रतया वयमपि गजवत् स्थलमिव मुनिमार्गमवगच्छन्तोऽपि नानुगन्तुं शक्नुम इति भावः ॥३०॥
मुनिः पुनरनित्यतां दर्शयन्नाहअच्चेइ कालो तूरंति राईओ न यावि भोगा पुरिसाण निच्चा । उविच्च भोगा पुरिसं चयंति दुमं जहा खीणफलं व पक्खी ॥३१॥
व्याख्या-अत्येत्यतिक्रामति कालो यथायुष्ककालो यतस्त्वरन्ते शीघ्रं गच्छन्ति रात्रयो दिनोपलक्षणमिदम् । ततोऽनेन जीवितव्यस्यानित्यत्वमुक्तम् । यत उक्तम्
"क्षण-याम-दिवस-मासच्छलेन गच्छन्ति जीवितदलानि ।
इति विद्वानसि कथमिह गच्छसि निद्रावशं रात्रौ ?" ॥१॥ न चापि भोगाः पुरुषाणां नित्याः । न केवलं जीवितं न नित्यं किन्तु भोगा अपीत्यर्थः । यत उपेत्य स्वप्रवृत्त्या न तु पुरुषाभिप्रायेण भोगाः पुरुषं त्यजन्ति । कं क इव ? इत्याह-द्रुमं वृक्षं क्षीणफलं यथा पक्षी, फलोपमानि हि पुण्यानि ततस्तदपगमे क्षीणफलं वृक्षमिव पक्षिणो भोगा मुञ्चन्तीति ॥३१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500