SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ४२० उत्तरज्झयणाणि-१ चतुर्थं चक्रिणं महद्धिकं काम-भोगेषु गृद्धेनाकाङ्क्षावता ‘मयेति योज्यम्' निदानं प्रेत्यभोगाशंसात्मकमशुभमशुभानुबन्धि कृतमिति ॥२८॥ तत् प्रतिक्रान्तं भविष्यतीत्यत आहतस्स मे अप्पडिक्वंतस्स इमं एयारिसं फलं । जाणमाणो वि जं धम्मं कामभोगेसु मुच्छिओ ॥२९॥ व्याख्या-सुब्ब्यत्ययेन तस्मान्निदानान्मे ममाप्रतिक्रान्तस्याप्रतिनिवृत्तस्येदमेतादृशं वक्ष्यमाणफलं कार्यम् । यत् कीदृगित्याह-जानन्नपि यदहं धर्मं श्रुतधर्मादिकं कामभोगेषु मूच्छितो गृद्धः । तदेतत् कामभोगेषु मूर्च्छनं मम निदानकर्मणः फलमिति ।।२९।। निदानफलं दृष्टान्तेनाहनागो जहा पंकजलावसन्नो दटुं थलं नाभिसमेइ तीरं । एवं वयं कामगुणेसु गिद्धा न भिक्खुणो मग्गमणुव्वयामो ॥३०॥ व्याख्या-नागो हस्ती यथा पङ्कप्रधानं जलं पङ्कजलं तत्रावसन्नो निमग्नः सन् दृष्ट्वा स्थलं न नैवाभिसमेति प्राप्नोति तीरं पारमेवं वयं कामगुणेषु गृद्धा मूच्छिता न भिक्षोः साधोर्मार्ग सदाचारलक्षणमनुव्रजामोऽनुसराम इति । पङ्कजलोपमकामभोगपरतन्त्रतया वयमपि गजवत् स्थलमिव मुनिमार्गमवगच्छन्तोऽपि नानुगन्तुं शक्नुम इति भावः ॥३०॥ मुनिः पुनरनित्यतां दर्शयन्नाहअच्चेइ कालो तूरंति राईओ न यावि भोगा पुरिसाण निच्चा । उविच्च भोगा पुरिसं चयंति दुमं जहा खीणफलं व पक्खी ॥३१॥ व्याख्या-अत्येत्यतिक्रामति कालो यथायुष्ककालो यतस्त्वरन्ते शीघ्रं गच्छन्ति रात्रयो दिनोपलक्षणमिदम् । ततोऽनेन जीवितव्यस्यानित्यत्वमुक्तम् । यत उक्तम् "क्षण-याम-दिवस-मासच्छलेन गच्छन्ति जीवितदलानि । इति विद्वानसि कथमिह गच्छसि निद्रावशं रात्रौ ?" ॥१॥ न चापि भोगाः पुरुषाणां नित्याः । न केवलं जीवितं न नित्यं किन्तु भोगा अपीत्यर्थः । यत उपेत्य स्वप्रवृत्त्या न तु पुरुषाभिप्रायेण भोगाः पुरुषं त्यजन्ति । कं क इव ? इत्याह-द्रुमं वृक्षं क्षीणफलं यथा पक्षी, फलोपमानि हि पुण्यानि ततस्तदपगमे क्षीणफलं वृक्षमिव पक्षिणो भोगा मुञ्चन्तीति ॥३१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy