________________
त्रयोदशं चित्र-संभूतीयमध्ययनम्
त्यक्तजीवस्य देहस्य स्वरूपमाह -
तं इक्गं तुच्छसरीरगं से चिईगयं दहिओ पावगेणं । भज्जा य पुत्तो वि य नायओ य दायारमन्नं अणुसंकमंति ॥ २५ ॥
व्याख्या- तद् यत् तेन जीवेन त्यक्तमेककं तद् द्वितीयस्य जन्तोरन्यत्र सङ्क्रमणात् तुच्छमसारं शरीरकं कुत्सितत्वात् । 'से' तस्य भवान्तरगतस्य सम्बन्धि चितिगतं चितां प्राप्तं दग्ध्वा पावकेनाग्निना भार्या च पुत्रोऽपि च ज्ञातयश्च दातारं वाञ्छितवस्तुसम्पादयितारमन्यमनुसङ्क्रामन्त्युपसर्पन्ति । ते हि तद् बहिर्निष्कास्य भस्मसात् कृत्वा आक्रन्द्य च स्वार्थतत्परतयान्यमनुवर्तन्ते तद्वार्तामपि न पृच्छन्तीति भावः ||२५||
किञ्च
४१९
उवणिज्जई जीवियमप्पमायं वन्नं जरा हरइ नरस्स रायं ! । पंचालराया वयणं सुणाहि मा कासि कम्माई महालयाई ॥२६॥
व्याख्या - उपनीयते ढौक्यते प्रक्रमान्मृत्यवे कर्मभिः जीवितमायुरप्रमादं प्रमादं विनावीचिमरणतो निरन्तरमित्यर्थः । सत्यपि च जीविते वर्णं सुस्निग्धच्छायारूपं जरा हरति नरस्य राजन् ! चक्रिन्नतः पञ्चालराजन् ! पञ्चालदेशस्वामिन् ! वचनं शृणु । किं तन्मा कार्षीः कर्माण्यसदारम्भरूपाणि 'महालयाई' ति अतिशयेन महान्ति पञ्चेन्द्रियवधमांसभक्षणादीनि ॥२६॥
नृपः प्राह
अहं पि जाणामि जहेह साहू जं मे तुमं साहसि वक्कमेयं । भोगा इमे संगकरा भवंति जे दुज्जया अज्जो अम्हारिसेहिं ॥२७॥
व्याख्या - अहमपि जानामि 'तथेति शेष:' यथा इहास्मिन् जगति साधो ! यन्मे मम त्वं साधयसि कथयसि वाक्यमेतद् यत् पूर्वं भवतोक्तम् । तत् किं विषयान् न परित्यजसि ? अत आह—- भोगाः शब्दादय इमे प्रत्यक्षाः सङ्गकराः प्रतिबन्धोत्पादका भवन्ति ये ‘यत्-तदोर्नित्याभिसम्बन्धात्' ते दुर्जया जेतुमभिभवितुं दुःशक्या भो आर्य ! अस्मादृशैर्गुरुकर्मभिरिति ॥२७॥
किञ्च
हत्थणपुरंमि चित्ता ! दट्टणं नरवई महिड्डियं । काम - भोगेसु गिद्धेणं नियाणमसुहं कडं ॥ २८ ॥
व्याख्या
- हस्तिनागपुरे हे चित्र ! चित्राभिधानमुने ! दृष्ट्वा नरपतिं सनत्कुमारं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org