________________
४१८
उत्तरज्झयणाणि-१ शोचते दुःखार्तः सन् पश्चात्तापं कुरुते । मृत्युमुखोपनीतस्तथाविधकर्मभिर्मरणगोचरमुपढौकितः सन् धर्मं शुभानुष्ठानमकृत्वा परस्मिल्लोके जन्मान्तररूपे 'गत इति शेषः' शशिनृपतिवत् । किं न मया तदा धर्मोऽनुष्ठित इति खिद्यत इत्यर्थः ॥२१॥
मृत्युमुखोपनीतस्य स्वजनादयस्त्राणाय भविष्यन्तीत्याशङ्क्याहजहेह सीहो व मियं गहाय मच्चू नरं नेइ हु अंतकाले । न तस्स माया व पिया व भाया कालंमि तम्मिसहरा भवंति ॥२२॥
व्याख्या-यथेह लोके सिंहो व्याघ्रादिर्वा मृगं गृहीत्वा तं नयतीति सम्बन्धः । एवं मृत्युनरं नयति 'हुर्निश्चये' । कदान्तकाले जीवितव्यावसाने । न तस्य मृत्युना नीयमानस्य माता वा पति वा भ्राता वा काले [तस्मिन्] जीवितान्तरूपे । अंशं जीवितभागं धारयन्ति मृत्युना नीयमानं रक्षन्तीत्यंशधराः स्वजीवितांशदानतः । यदुक्तम्
"न पिता भ्रातरः पुत्रा न भार्या न च बान्धवाः ।
न शक्ता मरणात् त्रातुं मग्नाः संसारसागरे" ॥१॥॥२२॥ तर्हि ते दुःखात् त्रस्यन्त इत्याहन तस्स दुक्खं विभयंति नाइओ न मित्तवग्गा न सुया न बंधवा । इक्को सयं पच्चणुहोइ दुक्खं कत्तारमेवं अणुजाइ कम्मं ॥२३॥
व्याख्या-न तस्य मृत्यूपनीतस्य दुःखं शारीरं मानसं वा विभजन्ति विभागेन गृह्णन्ति ज्ञातयो दूरस्था स्वजनाः, न मित्रवर्गाः, न सुताः, न बन्धवा निकटस्वजनाः । किन्त्वेकोऽद्वितीयः स्वयं प्रत्यनुभवति दुःखं । कर्तारमेवानुयात्यनुगच्छति कर्मेति ॥२३।।
अशरणभावनामुक्त्वैकत्वभावनामाहचिच्चा दुपयं चउप्पयं च खित्तं गिहं धण-धन्नं च सव्वं । कम्मप्पबीओ अवसो पयाइ परं भवं सुंदर पावगं वा ॥२४॥
व्याख्या-त्यक्त्वा द्विपदं भार्यादि, चतुष्पदं च गजादि, क्षेत्रमिक्षुक्षेत्रादि, गृहं धवलगृहादि, धनं धान्यं च प्रतीतम्, चशब्दाद् वस्त्रादि, सर्वं कर्मैवात्मनो द्वितीयमस्येति कर्मात्मद्वितीयोऽवशोऽतन्त्रस्वः प्रयाति प्राप्नोति परं भवमन्यजन्म सुन्दरं बिन्दुलोपात् स्वर्गादि, पापकं वा नरकादि स्वकर्मनुरूपमिति भावः ॥२४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org