________________
त्रयोदशं चित्र-संभूतीयमध्ययनम् धर्मोपदेशमाह
नरिंद ! जाई अहमा नराणं सोवागजाई दुहओ गयाणं । जहिं वयं सव्वजणस्स वेसा वसीय सोवागनिवेसणे ॥ १८ ॥
व्याख्या-भो नरेन्द्र चक्रवर्तिन् ! जातिरधमा नराणां मध्ये श्वपाकजातिर्द्वयोरपि गतयोः प्राप्तयोरासीद् । यदावां श्वपाकावुत्पन्नौ तदा सर्वजननिन्द्या जातिरासीदिति भावः। यस्यां वयं 'प्राकृतत्वाद् बहुत्वम्' सर्वजनस्य द्वेष्यावप्रीतिकरौ 'वसीय 'त्ति अवसाव उचितौ श्वपाकनिवेशनेषु चाण्डालगृहेषु ॥१८॥
तीसे य जाईइ उ पावियाए वुच्छा मु सोवागनिवेसणेसु । सव्वस्स लोगस्स दुगंछणिज्जा इहं तु कम्माई पुराकडाई ॥ १९ ॥
४१७
व्याख्या- तस्यां च जातौ 'तुर्विशेषणे' पापिकायां कुत्सितायां पापहेतुत्वेन वा पापिकायां 'वुच्छ'त्ति उषितौ 'मु' इत्यावां श्वपाकनिवेशनेषु सर्वस्य लोकस्य जुगुप्सनीयौ, इहास्मिन् जन्मनि तुः पुनः कर्माणि शुभानुष्ठानानि पुराकृतानि पूर्वजन्मोपार्जितानि विशिष्टजात्यादिनिबन्धनानीति शेषः ॥१९॥
यतश्चैवमतः
सो दाणिसिं राय महाणुभागो महिडिओ पुन्नफलोववेओ । चइत्तु भोगाई असासयाइं आदाणहेउं अभिनिक्खमाहि ॥२०॥
व्याख्या - स इति यः पुरा सम्भूतनामाऽनगार आसीत् 'दाणिसिं' ति देशीभाषयेदानीं राजा महानुभागो महर्धिकः पुण्यफलोपपेतश्च स त्वं दृष्टधर्मफलत्वेनाभिनिष्क्रामेतिसम्बन्धः । पुराकृतकर्मविजृम्भितत्वादेवंविधसमृद्ध्यवाप्तिरिति भावोऽतोऽभिनिष्क्राम । किं कृत्वेत्याह- त्यक्त्वाऽपहाय भोगानशाश्वतान्, आदीयते विवेकिभिर्गृह्यते इत्यादानश्चारित्रधर्मस्तद्धेतोरभिनिष्क्रामाभिमुख्येन प्रव्रज, न गृहस्थत्वे सर्वविरतिचारित्रसम्भव इति भावः ॥२०॥
एवमकरणे को दोष इत्याह
इह जीविए राय ! असासयंमि धणियं तु पुन्नाइ अकुव्वमाणो । सो सोई मच्चुमुहोवणीए धम्मं अकाऊण परंमि लोए ॥ २१ ॥ व्याख्या - इहास्मिन् जीविते मनुष्यसम्बन्धिनि भो राजन् ! अशाश्वतेऽस्थिरे 'धणियं तु' त्ति अतिशयेनैव न तु ध्वजपटप्रान्तवच्चञ्चलतामात्रेण पुण्यान्यकुर्वाणः स
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org