________________
त्रयोदशं चित्र-संभूतीयमध्ययनम्
यत एवमत:
जइ तंसि भोए चइउं असत्तो अज्जाइ कम्माइ करेइ रायं ! । धम्मे ठिओ सव्वपयाणुकंपी तो होहिसि देवो इओ विव्वी ॥३२॥
व्याख्या - यदि तावदसि त्वं भोगांस्त्यक्तुमशक्तोऽसमर्थ एवमनित्यत्वे भोगत्यागेन भिक्षुमार्गानुसरणे ह्युचितेऽप्येवं यदि कर्तुं न शक्त इत्याशयस्ततः किम् ? इत्याहआर्याणि विशिष्टजनोचितानि कर्माण्यनुष्ठानानि कुरु राजन् ! धर्मे प्रक्रमाद् गृहस्थधर्मे सम्यक्त्वादिरूपे स्थितः सन् सर्वप्रजानुकम्पी सर्वप्राणिदयापरः । ततः किं फलम् ? इत्याह–'तो' त्ति तत आर्यकर्मकरणाद् भविष्यसि देवो वैमानिक इत इत्यस्मान्मनुष्यभवादनन्तरं 'विउव्वी' त्ति वैक्रियशरीरवान् । सम्यक्त्वदेशविरतिरूपस्य गृहस्थधर्मस्यापि देवलोकफलत्वेनोक्तत्वादिति भावः ||३२||
पुनर्मुनिर्देशविरतिमप्यनङ्गीकुर्वाणं नृपं प्राह
न तुज्झ भोगे चइऊण बुद्धी गिद्धो सि आरंभ - परिग्गहेसु । मोहं कओ इति विप्पलावो गच्छामि रायं ! आमंतिओ सि ॥३३॥
व्याख्या- 'नेति प्रतिषेधे' तव भोगान् शब्दादीनुपलक्षणादनार्यकर्माणि वा 'चइऊण' त्ति त्यक्तुं बुद्धिः, किन्तु गृद्धो मूच्छितोऽसि भवसि केषु ? आरम्भ - परिग्रहेषु सावद्यद्विपदादिस्वीकारेषु च । 'मोहं' ति मोघं निष्फलं यथा स्यादेवं कृत एतावान् विप्रलापो विविधव्यर्थवचनोपन्यासात्मकः । सम्प्रति गच्छामि राजन् ! आमन्त्रितोऽसि ‘धातूनामनेकार्थत्वात्' पृष्टोऽसि । एवमनेकधा जीवितानित्यत्वादिदर्शनेनाप्यबुध्यमानस्य तवाविनेयत्वादुपेक्षैव श्रेयस्करी । उक्तं हि
44
'मैत्री प्रमोदं कारुण्यं माध्यस्थं च नियोजयेत् ।
४२१
गुणाधिके क्लिश्यमानके वाऽविनीतके" ॥१॥ ||३३||
इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभूत् तदाह
पंचाल या विय बंभदत्तो साहुस्स तस्सा वयणं अकाउं । अणुत्तरे भुंजिय काम - भोए अणुत्तरे सो नरए पविट्टो ||३४||
Jain Education International 2010_02
व्याख्या-'अपिः पुनरर्थश्चः पूरणे' ततः पञ्चालराजः पुनर्ब्रह्मदत्तः साधोस्तस्य चित्रजीवस्य वचनं हितोपदेशरूपमकृत्वाऽनुत्तरान् सर्वोत्तमान् भुक्त्वा भोगाननुत्तरे स्थित्यादिभिः सर्वनरकमुख्येऽप्रतिष्ठाने स ब्रह्मदत्तो नरके प्रविष्टः समुत्पन्नस्तदनेन निदानस्य नरकावसानफलमुक्तमिति ||३४||
For Private & Personal Use Only
www.jainelibrary.org