Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
४२४
उत्तरज्झयणाणि-१ ततो भृगुरपत्यार्थमनेकैरुपयाचितैः । देवानाराधयत्युच्चैः पृच्छन् नैमित्तिकांस्तथा ॥१०॥ इतश्च गोपदेवौ तौ विज्ञायावधिनेति वै । भृगोः पुरोहितस्यावां भविष्यावः सुतौ यथा ॥११॥ ततस्तौ साधुरूपेण भृगुपार्श्वे सुरौ गतौ । भृगुणा वन्दितौ साधू सभार्येण पुरोधसा ॥१२॥ तद्धर्मदेशनां श्रुत्वा पुरोधा भृगुरादरात् । श्राद्धधर्मं ससम्यक्त्वं जग्राह गृहिणीसखः ॥१३।। सदारो भृगुरप्राक्षीद् भगवन् ! सन्ततिः कदा ? | भवित्री नो मुनिः प्राह द्वौ पुत्रौ वो भविष्यतः ॥१४।। तयोर्बालकयोरेव संवेगात् प्रव्रजिष्यतोः । विघ्नो युवाभ्यां नो कार्यो धर्मविघ्नो ह्यनर्थदः ॥१५।। तौ च प्राप्तव्रतौ भव्यान् बहून् सम्बोधयिष्यतः । एवमुक्त्वा सुरावन्तर्धाय स्वर्ग समीयतुः ॥१६।। तत्र दिव्यसुखं भुक्त्वा तौ गीर्वाणौ ततश्च्युतौ । कुक्षौ पुरोधोभार्यायाः पुत्रत्वेनावतेरतुः ॥१७॥ ततः पुरोहितः साकं कलत्रेण पुरा क्वचित् । प्रत्यन्तग्राममागत्य तस्थिवान् सपरिच्छदः ॥१८।। तत्र प्रसूता तज्जाया जातौ द्वौ दारको ततः । पाल्यमानौ लाल्यमानौ वर्धमानौ यथासुखम् ॥१९॥ कुर्वाणौ च कलाभ्यासं कलाचार्यस्य सन्निधौ । व्युद्ग्राहितौ पितृभ्यां तौ मेमौ प्रव्रजतामिति ॥२०॥ यथैते भिक्षुका बालान् हत्वाऽश्नन्ति पलं ततः । युवां मा श्लिष्यतामेतान् कदाप्यात्महितैषिणौ ॥२१।। अन्येद्युस्तौ बहिर्दामाद् रममाणौ विनिर्गतौ । इतश्च केचिदाजग्मुर्मुनयो मार्गमाश्रिताः ॥२२॥ ततस्तौ बालकौ साधून् दर्श दर्श भयद्रुतौ । पलाय्यारूढवन्तौ द्राग् महान्तं वटपादपम् ॥२३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500