Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
त्रयोदशं चित्र-संभूतीयमध्ययनम्
४१३ ___ व्याख्या-काम्पील्ये च नगरे ब्रह्मदत्तोत्पत्तिस्थाने समागतौ मिलितौ द्वावपि चित्रसम्भूतौ प्राग्भवनामानौ चित्रजीवयति-ब्रह्मदत्तावित्यर्थः । सुख-दुःखफलविपाकं सुकृतदुष्कृतकर्मानुभवरूपं 'कहिति' त्ति कथयतः 'स्म' इति शेषः [तौ] 'एक्कमेक्स्स ' त्ति एकैकस्य परस्परमित्यर्थः । यथास्वमनुभूतसुखदुःखफलविपाकं कथयामासतुरिति भावः । ततश्च वर्णिता निजसमृद्धिश्चक्रवर्तिना, प्ररूपितस्तद्विपाकदर्शनतस्तत्परित्यागश्चित्रयतिनेति ॥३॥
चक्कवट्टी महिड्डीओ बंभदत्तो महायसो ।
भायरं बहुमाणेण इमं वयणमब्बवी ॥४॥ व्याख्या-चक्रवर्ती महद्धिको ब्रह्मदत्तो महायशा भ्रातरं प्राग्भवसोदरं बहुमानेन मानसप्रतिबन्धेनेदं वक्ष्यमाणं वचनमब्रवीदुक्तवान् ॥४॥ तदेवाह
आसिमो भायरा दो वि अन्नमन्नवसाणुगा ।
अन्नमन्नमणूरत्ता अण्णमण्णहिएसिणो ॥५॥ व्याख्या-'आसिमो' त्ति अभूवावां भ्रातरौ द्वावप्यन्योन्यं परस्परं 'वसाणुग' त्ति वशमनुगच्छत इत्यन्योन्यवशानुगौ । तथाऽन्योन्यमनुरक्तावतीवस्नेहलौ । तथाऽन्योन्यं हितैषिणौ शुभाभिलाषिणौ । त्रिरन्योन्यग्रहणं तुल्यचित्तताख्यापनार्थम् । मकारा अलाक्षणिकाः ॥५॥ केषु पुनर्भवेष्वित्थमावामभूवेत्याह
दासा दसन्ने आसि मिया कालिंजरे नगे । हंसा मयंगतीराए चंडाला कासिभूमिए ॥६॥ देवा य देवलोगंमि आसि अम्हे महिड्डिया ।
इमा णो छट्ठिया जाई अण्णमण्णेण जा विणा ॥७॥ अनयोर्व्याख्या-दासौ दशाणे देशे 'आसि' त्ति अभूव । मृगौ कालिञ्जरे नगे पर्वते। हंसौ मृतगङ्गातीरे । कीदृशी मृतगङ्गा ? उच्यते
"गङ्गा विशति पाथोधिं वर्षे वर्षेऽपराध्वना ।
वाहस्तत्र चिरात् त्यक्तो मृतगङ्गेति कथ्यते" ॥१॥ चाण्डालौ काशीभूम्यां काशीदेशे । देवौ च देवलोके सौधर्मनाम्नि अभूव 'अम्हे' त्ति आवां महद्धिकौ, न तु किल्बिषिकौ । 'इमा णो' त्ति इयमावयोः षष्ठिका जातिः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500