SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ त्रयोदशं चित्र-संभूतीयमध्ययनम् ४१३ ___ व्याख्या-काम्पील्ये च नगरे ब्रह्मदत्तोत्पत्तिस्थाने समागतौ मिलितौ द्वावपि चित्रसम्भूतौ प्राग्भवनामानौ चित्रजीवयति-ब्रह्मदत्तावित्यर्थः । सुख-दुःखफलविपाकं सुकृतदुष्कृतकर्मानुभवरूपं 'कहिति' त्ति कथयतः 'स्म' इति शेषः [तौ] 'एक्कमेक्स्स ' त्ति एकैकस्य परस्परमित्यर्थः । यथास्वमनुभूतसुखदुःखफलविपाकं कथयामासतुरिति भावः । ततश्च वर्णिता निजसमृद्धिश्चक्रवर्तिना, प्ररूपितस्तद्विपाकदर्शनतस्तत्परित्यागश्चित्रयतिनेति ॥३॥ चक्कवट्टी महिड्डीओ बंभदत्तो महायसो । भायरं बहुमाणेण इमं वयणमब्बवी ॥४॥ व्याख्या-चक्रवर्ती महद्धिको ब्रह्मदत्तो महायशा भ्रातरं प्राग्भवसोदरं बहुमानेन मानसप्रतिबन्धेनेदं वक्ष्यमाणं वचनमब्रवीदुक्तवान् ॥४॥ तदेवाह आसिमो भायरा दो वि अन्नमन्नवसाणुगा । अन्नमन्नमणूरत्ता अण्णमण्णहिएसिणो ॥५॥ व्याख्या-'आसिमो' त्ति अभूवावां भ्रातरौ द्वावप्यन्योन्यं परस्परं 'वसाणुग' त्ति वशमनुगच्छत इत्यन्योन्यवशानुगौ । तथाऽन्योन्यमनुरक्तावतीवस्नेहलौ । तथाऽन्योन्यं हितैषिणौ शुभाभिलाषिणौ । त्रिरन्योन्यग्रहणं तुल्यचित्तताख्यापनार्थम् । मकारा अलाक्षणिकाः ॥५॥ केषु पुनर्भवेष्वित्थमावामभूवेत्याह दासा दसन्ने आसि मिया कालिंजरे नगे । हंसा मयंगतीराए चंडाला कासिभूमिए ॥६॥ देवा य देवलोगंमि आसि अम्हे महिड्डिया । इमा णो छट्ठिया जाई अण्णमण्णेण जा विणा ॥७॥ अनयोर्व्याख्या-दासौ दशाणे देशे 'आसि' त्ति अभूव । मृगौ कालिञ्जरे नगे पर्वते। हंसौ मृतगङ्गातीरे । कीदृशी मृतगङ्गा ? उच्यते "गङ्गा विशति पाथोधिं वर्षे वर्षेऽपराध्वना । वाहस्तत्र चिरात् त्यक्तो मृतगङ्गेति कथ्यते" ॥१॥ चाण्डालौ काशीभूम्यां काशीदेशे । देवौ च देवलोके सौधर्मनाम्नि अभूव 'अम्हे' त्ति आवां महद्धिकौ, न तु किल्बिषिकौ । 'इमा णो' त्ति इयमावयोः षष्ठिका जातिः । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy