SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ४१२ उत्तरज्झयणाणि-१ स्थालं प्रपूरितं नित्यं भोः ! ढौकयत मत्पुरः । स्वहस्तमर्दनेनैषां येनाहं स्यां सुखास्पदम् ॥१७५॥ युग्मम् सङ्क्लिष्टतीव्रकर्मोदयपरवशचक्रिणः पुरः सततम् । शाखोटकफलपूर्णो मन्त्रिभिरुपढौक्यते स्थालः ॥१७६।। सोऽपि द्विजाक्षिबुद्ध्या प्रमर्दयंस्तानि निजकहस्तेन । स्वं सुखितं मन्वानो दिवसानतिवाहयामास ॥१७७॥ सप्तशतानि समानां किञ्चाभ्यधिकानि तानि षोडशभिः । आयुः प्रपाल्य नवरं नित्याविरतो महामूढः ॥१७८।। परिवर्धमानरौद्राध्यवसायो नारकोऽभवन्मृत्वा । सप्तमनरकपृथिव्यां त्र्यधिकत्रिंशज्जलध्यायुः ॥१७९॥ युग्मम् साम्प्रतं सूत्रमनुस्रियते जाईपराजिओ खलु कासि नियाणं तु हत्थिणपुरंमि । चुलणीइ बंभदत्तो उववण्णो पउमगुम्माओ ॥१॥ व्याख्या-जात्या चाण्डालरूपया यद्वा जातिभिर्दासादिनीचस्थानोत्पत्तिभिरुपर्युपरिजाताभिः पराजितः पराभूतः । 'खलुनिश्चये' 'कासि'त्ति अकार्षीन्निदानं चक्रिपदप्रार्थनारूपं हस्तिनागपुरे, ततश्चुलन्यां ब्रह्मदत्त उत्पन्नः । पद्मगुल्मान्नलिनीगुल्मविमानात् 'च्युत्वा' इति शेषः । इत्यक्षरार्थः, भावार्थः कथानकादवसेयस्तच्च कथितम् ॥१॥ चुलन्यां ब्रह्मदत्त उत्पन्न इत्युक्तम्, स च क्वेत्याह कंपिल्ले संभूओ चित्तो पुण जाओ पुरिमतालंमि । सिट्ठिकुलंमि विसाले धम्मं सोऊण पव्वईओ ॥२॥ व्याख्या-काम्पील्ये इति पाञ्चालदेशभूषणे काम्पील्यनाम्नि नगरे सम्भूतः पूर्वजन्मनामा । चित्रः पुनः सम्भूतप्राग्जन्मभ्राता जातः पुरिमताले पुरे, क्व ? श्रेष्ठिकुले विशाले पुत्र-पौत्रादिभिर्विस्तीर्णे । प्राप्तवयाश्च तथाविधाचार्यपार्वे धर्मं यतिरूपं श्रुत्वा प्रव्रजित इति ॥२॥ ततः किमित्याह कंपिल्लंमि य नयरे समागया दो वि चित्त-संभूया। सुह-दुक्खफलविवागं कर्हिति ते एक्कमेक्कस्सं ॥३॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International 2010_02
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy