SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४११ त्रयोदशं चित्र-संभूतीयमध्ययनम् पुनः पुनः स चोक्तोऽपि यदा न प्रतिबुध्यते । आ ! ज्ञातं विस्फुरत्यस्य निदानं प्राकृतं किल ॥१६०।। अतोऽर्हदुक्तिमन्त्राणामसाध्यः कालदष्टवत् । असाविति गतः साधुः काले शिवमवाप च ॥१६१।। चयपि स्वगृहं प्राप्तोऽनुभवद् राज्यसम्पदम् । किञ्चित् कालं व्यतीयाय यथेच्छं सपरिच्छदः ॥१६२।। द्विजातिनाऽन्यदैकेनायाचि भूपः स्वभोजनम् । राज्ञोक्तं मामकं भोज्यं त्वं भोक्तुं न क्षमः खलु ॥१६३।। यतो हि मां विनाऽन्यस्य तन्नैव सहते क्वचित् । ततोऽञ्जसा द्विजेनोचे राज्यलक्ष्मी धिगस्तु ते ॥१६४|| यदन्नमात्रदानेऽपि भूभर्तुर्मन्त्रणं महत् । राज्ञाऽप्यसूयया सोऽथ भोजितः सपरिच्छदः ॥१६५।। रात्रौ परिणमत्यन्ने स विप्रः सकुटुम्बकः । उन्मत्तोऽभून्महाकामवेदनानष्टचेतनः ॥१६६।। सर्वपरिजनस्तस्याकार्यं कर्तुं प्रवृत्तवान् । मिथो मातृ-स्नुषा-भग्नी-पुत्रिकाद्यनपेक्षया ॥१६७।। प्रातः परिणते चान्ने लज्जितो दध्यिवान् द्विजः । कथं नु वैरिणेवाहं भूपेनेत्थं विडम्बित: ? ॥१६८॥ ततो दध्यौ स भूदेवो मद्विवक्षितकार्यकृत् । ऋजुर्योग्योऽयमेवेति तं दानाद्यैरुपाचरत् ॥१७०॥ स्वाशयः कथितस्तेन तस्यैकान्तेऽधिकादरात् । तेनापि प्रतिपन्नं तच्चक्रवर्त्यक्षिपातनम् ॥१७१।। अन्येधुश्चक्रिणो गेहाद् यातो गोलिकयैकया । तेन कुड्यान्तरस्थेन सममुत्पाटिते दृशौ ॥१७२।। तवृत्तान्तं ततो ज्ञात्वा राज्ञा चोत्पन्नमन्युना । सपुत्र-बान्धवः सोऽथापराधी घातितोऽञ्जसा ॥१७३।। चक्रवर्ती ततः प्राह मन्त्रिणश्चातिरोषणः । घातं घातं द्विजान् दुष्टान् सापराधान् तदक्षिभिः ॥१७४।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy