________________
४१०
किंपागफलसरिच्छाभोगा विसया य संझरागसमा । दब्भग्गोदयबिंदु व्व चंचला होइ तह लच्छी ॥२॥ सुलहं दुक्खं सुक्खं च दुल्लहं मच्चू अवारियप्पसरो । मिच्छत्ताविरयाई हेऊ तह कम्मबंधस्स ॥३॥ सुक्खाइसयनिहाणो सलाहणिज्जो य मुक्खमग्गो य । ता मोहं छंड्डित्ता भव्वा ! धम्मंमि उज्जमह" ॥४॥ संसत् सर्वाऽपि तां श्रुत्वा जाता संवेगभाविता । पूर्वदुष्कृतयोगेन ब्रह्मदत्तो न भावितः ॥ १५२ ॥ चक्र्यूचे स्वकसङ्गमसौख्येनामोदितो यथा हि मुने ! । मोदयतु तथेह भवानस्मान् राज्योररीकरणात् ॥ १५३॥ सममेव करिष्यावश्चरणाचरोद्यमेन तदनु तपः । एतद् विफलं तपसो यद् राज्यप्राज्यसुखभोगः || १५४|| "मुनिराख्यद् युक्तमिदं भवतामुपकारकरणनिरतानाम् । परमवनिपते ? मनुजावस्थेयं दुर्लभैव भवे || १५५।।
सततं पातुकमायुर्धर्ममतिश्चञ्चला पुनः प्रायः । विषया विपाककटवस्तद्रक्तानां ध्रुवो नरकः ॥१५६॥
उत्तरज्झयणाणि - १
दुर्लभमेवं मुक्तेर्बीजं च विशेषतो विरतिरत्नम् । तत् कुगतिहेतु राज्यं विदुषां हर्षप्रदं तु कथम् ? ॥ १५७॥ तत् त्यज कदाशयममुं स्मर दुःखं प्राग्भव चराप्तपथम् । सफलीकुरुष्व मानवजन्मार्हद्वाक्सुधां च पिब" ॥१५८॥ भूपो जगाद भगवन्नुपनतसुखहानिरपरसुखवाञ्छा । मौर्व्यस्य लक्षणं तन्मैवं चादिश कुरु मदुक्तम् ॥१५९॥
किम्पाकफलसदृशा भोगा विषयाश्च सन्ध्यारागसमाः । दर्भाग्रोदकबिन्दुरिव चञ्चला भवति तथा लक्ष्मीः ||२|| सुलभं दुःखं सुखं च दुर्लभं मृत्युरवारितप्रसरः । मिथ्यात्वाविरत्यादिर्हेतुस्तथा कर्मबन्धस्य || ३ || सुखातिशयनिधानः श्लाघनीयश्च मोक्षमार्गश्च । ततो मोहं मुक्त्वा भव्याः ! धर्मे उद्यच्छथ ||४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org