________________
४१४
उत्तरज्झयणाणि-१ कीदृशी येत्याह-'अण्णमण्णेण' त्ति अन्योन्येन परस्परेण या षष्ठी जातिविना कोऽर्थः ? परस्परसाहित्यरहिता वियुक्तयोर्यकेति भाव इति गाथाद्वयार्थः ॥६-७॥
मुनिराहकम्मा नियाणपगडा तुमे राय ! विचिंतिया । तेसिं फलविवागेण विप्पओगमुवागया ॥८॥
व्याख्या कर्माणि ज्ञानावरणादीनि, नितरां दीयन्ते खण्डयन्ते तपःप्रभृतीन्यनेनेति निदानं साभिष्वङ्गप्रार्थनारूपं तेन प्रकर्षेण कृतानि निदानप्रकृतानि निदानवशनिबद्धानीत्यर्थः त्वया राजन् ! विचिन्तितानीति तद्धेतुभूतार्त्तध्यानतः कर्माण्यपि तथोच्यन्ते । तेषामेवंविधकर्मणां फलविपाकेन शुभाशुभजनकत्वलक्षणेन विप्रयोगं विरहमुपागतौ प्राप्तौ । को भावः? यत् तदा त्वयास्मन्निवारितेनापि निदानं कृतं, तत्फलमेतद् यदावयोवियोग इति ॥८॥
पुनश्चक्री प्रश्नयितुमाहसच्चसोयप्पगडा कम्मा मए पुरा कडा । ते अज्ज परिभुंजामो किं नु चित्ते वि से तहा ? ॥९॥
व्याख्या-सत्यं प्रतीतं शौचं चामायमनुष्ठानं ताभ्यां प्रकटानि ख्यातानि कर्माणि शुभानुष्ठानानि मया पुरा कृतानि 'यानीति गम्यते' तान्यद्यास्मिन्नहनि 'शेषतद्भवकालोपलक्षणम्' 'परिभुंजामो' त्ति परिभुझे तद्विपाकोपनतस्त्रीरत्नादिपरिभोगद्वारेण वेदये 'यथेति गम्यते' । 'किमितिप्रश्ने, नुर्वितर्के' चित्रोऽपि कोऽर्थो भवानपि । 'से' इति तानि तथा परिभुङ्क्ते ? काक्वा नैव भुङ्क्ते भिक्षुकत्वाद् भवतः । किमिति मयैव सहोपार्जितानि शुभकर्माणि विफलानि जातानीत्याशयः ॥९॥
मुनिराहसव्वं सुचिन्नं सफलं नराणं कडाण कम्माण न मोक्खु अस्थि । अत्थेहिं कामेहिं य उत्तमेहिं आया ममं पुन्नफलोववेए ॥१०॥ जाणाहि संभूय ! महाणुभागं महड्डियं पुण्णफलोववेयं । चित्तं पि जाणाहि तहेव रायं ! इड्डी जुई तस्स वि य प्पभूया ॥११॥
अनयोक्ख्या -सर्वं सुचीर्णं शोभनमनुष्ठितं 'तपःप्रभृतीति गम्यम्' सफलं नराणामुपलक्षणत्वादशेषजीवानाम् । यतः कृतेभ्योऽर्थादवश्यवेद्येभ्यः कर्मभ्यो न मोक्षोऽस्ति । तानि हि ददत्येव निजफलमवश्यमिति भावः । अर्थैर्द्रव्यैः कामैश्च शब्दादिभिरुत्तमैरुपलक्षितः सन्नात्मा मम पुण्यफलोपेतश्चक्रित्वावाप्त्या शुभकर्मफलान्वित इति यथा त्वं जानासि हे
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org