Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
४१२
उत्तरज्झयणाणि-१ स्थालं प्रपूरितं नित्यं भोः ! ढौकयत मत्पुरः । स्वहस्तमर्दनेनैषां येनाहं स्यां सुखास्पदम् ॥१७५॥ युग्मम् सङ्क्लिष्टतीव्रकर्मोदयपरवशचक्रिणः पुरः सततम् । शाखोटकफलपूर्णो मन्त्रिभिरुपढौक्यते स्थालः ॥१७६।। सोऽपि द्विजाक्षिबुद्ध्या प्रमर्दयंस्तानि निजकहस्तेन । स्वं सुखितं मन्वानो दिवसानतिवाहयामास ॥१७७॥ सप्तशतानि समानां किञ्चाभ्यधिकानि तानि षोडशभिः । आयुः प्रपाल्य नवरं नित्याविरतो महामूढः ॥१७८।। परिवर्धमानरौद्राध्यवसायो नारकोऽभवन्मृत्वा ।
सप्तमनरकपृथिव्यां त्र्यधिकत्रिंशज्जलध्यायुः ॥१७९॥ युग्मम् साम्प्रतं सूत्रमनुस्रियते
जाईपराजिओ खलु कासि नियाणं तु हत्थिणपुरंमि ।
चुलणीइ बंभदत्तो उववण्णो पउमगुम्माओ ॥१॥ व्याख्या-जात्या चाण्डालरूपया यद्वा जातिभिर्दासादिनीचस्थानोत्पत्तिभिरुपर्युपरिजाताभिः पराजितः पराभूतः । 'खलुनिश्चये' 'कासि'त्ति अकार्षीन्निदानं चक्रिपदप्रार्थनारूपं हस्तिनागपुरे, ततश्चुलन्यां ब्रह्मदत्त उत्पन्नः । पद्मगुल्मान्नलिनीगुल्मविमानात् 'च्युत्वा' इति शेषः । इत्यक्षरार्थः, भावार्थः कथानकादवसेयस्तच्च कथितम् ॥१॥ चुलन्यां ब्रह्मदत्त उत्पन्न इत्युक्तम्, स च क्वेत्याह
कंपिल्ले संभूओ चित्तो पुण जाओ पुरिमतालंमि ।
सिट्ठिकुलंमि विसाले धम्मं सोऊण पव्वईओ ॥२॥ व्याख्या-काम्पील्ये इति पाञ्चालदेशभूषणे काम्पील्यनाम्नि नगरे सम्भूतः पूर्वजन्मनामा । चित्रः पुनः सम्भूतप्राग्जन्मभ्राता जातः पुरिमताले पुरे, क्व ? श्रेष्ठिकुले विशाले पुत्र-पौत्रादिभिर्विस्तीर्णे । प्राप्तवयाश्च तथाविधाचार्यपार्वे धर्मं यतिरूपं श्रुत्वा प्रव्रजित इति ॥२॥ ततः किमित्याह
कंपिल्लंमि य नयरे समागया दो वि चित्त-संभूया। सुह-दुक्खफलविवागं कर्हिति ते एक्कमेक्कस्सं ॥३॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_02

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500