Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
४११
त्रयोदशं चित्र-संभूतीयमध्ययनम्
पुनः पुनः स चोक्तोऽपि यदा न प्रतिबुध्यते । आ ! ज्ञातं विस्फुरत्यस्य निदानं प्राकृतं किल ॥१६०।। अतोऽर्हदुक्तिमन्त्राणामसाध्यः कालदष्टवत् । असाविति गतः साधुः काले शिवमवाप च ॥१६१।। चयपि स्वगृहं प्राप्तोऽनुभवद् राज्यसम्पदम् । किञ्चित् कालं व्यतीयाय यथेच्छं सपरिच्छदः ॥१६२।। द्विजातिनाऽन्यदैकेनायाचि भूपः स्वभोजनम् । राज्ञोक्तं मामकं भोज्यं त्वं भोक्तुं न क्षमः खलु ॥१६३।। यतो हि मां विनाऽन्यस्य तन्नैव सहते क्वचित् । ततोऽञ्जसा द्विजेनोचे राज्यलक्ष्मी धिगस्तु ते ॥१६४|| यदन्नमात्रदानेऽपि भूभर्तुर्मन्त्रणं महत् । राज्ञाऽप्यसूयया सोऽथ भोजितः सपरिच्छदः ॥१६५।। रात्रौ परिणमत्यन्ने स विप्रः सकुटुम्बकः । उन्मत्तोऽभून्महाकामवेदनानष्टचेतनः ॥१६६।। सर्वपरिजनस्तस्याकार्यं कर्तुं प्रवृत्तवान् । मिथो मातृ-स्नुषा-भग्नी-पुत्रिकाद्यनपेक्षया ॥१६७।। प्रातः परिणते चान्ने लज्जितो दध्यिवान् द्विजः । कथं नु वैरिणेवाहं भूपेनेत्थं विडम्बित: ? ॥१६८॥ ततो दध्यौ स भूदेवो मद्विवक्षितकार्यकृत् । ऋजुर्योग्योऽयमेवेति तं दानाद्यैरुपाचरत् ॥१७०॥ स्वाशयः कथितस्तेन तस्यैकान्तेऽधिकादरात् । तेनापि प्रतिपन्नं तच्चक्रवर्त्यक्षिपातनम् ॥१७१।। अन्येधुश्चक्रिणो गेहाद् यातो गोलिकयैकया । तेन कुड्यान्तरस्थेन सममुत्पाटिते दृशौ ॥१७२।। तवृत्तान्तं ततो ज्ञात्वा राज्ञा चोत्पन्नमन्युना । सपुत्र-बान्धवः सोऽथापराधी घातितोऽञ्जसा ॥१७३।। चक्रवर्ती ततः प्राह मन्त्रिणश्चातिरोषणः । घातं घातं द्विजान् दुष्टान् सापराधान् तदक्षिभिः ॥१७४।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500