Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 440
________________ ४०६ उत्तरज्झयणाणि-१ जतुनो वासभवने चुलुन्यैव प्रदीपिते । स्वयं समन्ततस्तत्र हाहारव उदच्छलत् ॥१०२।। युग्मम् प्रबुद्धो ब्रह्मदत्तस्तु मूढहृद् ज्वलदोकसि । किं कर्तव्यमिति प्रोच्चैमित्रं वरधनुं जगौ ॥१०३।। तदाऽवादीद् वरधनुर्धनुज्ञापितकूणके । मित्र ! पाणिप्रहारेण सुरङ्गाऽऽस्यं प्रकाशय ॥१०४।। ब्रह्मदत्तोऽवदन्मित्रोत्थापय क्षितिपात्मजाम् । मन्त्रिसूराह मत्पित्रा सा दूतास्येन वारिता ॥१०५।। वर्त्तते काचिदन्यैषा ह्यस्यां रागं तु मा कृथाः । तेन द्वारं सुरङ्गाया लत्तयोद्घाटितं ततः ॥१०६॥ तद्वारेण विनिर्गत्य तौ सत्रागारमीयतुः । तत्र प्राग् धनुमन्त्रीशधृतजात्यतुरङ्गमौ ॥१०७।। मन्त्र्यादिष्टौ समारुह्य ततः सद्य पलायितौ । पञ्चाशद्योजनी प्राप्तौ कोट्टग्रामं क्रमाद् गतौ ।।१०८॥ युग्मम् स्थित्वोद्याने वरधनुः क्षुरिणाऽवापयच्छिरः । कुमारस्य स्वयं सद्यः परावत्तितवेषभृत् ॥१०९।। काषायिकानि वासांसि कुमार पर्यधापयत् । सश्रीवत्सं च तद्वक्षः पट्टेनाच्छादयत् स तु ॥११०।। ततो व्रजन्तौ ग्रामान्तर्द्विजेनैकेन वीक्षितौ । स्वमन्दिरे समाकार्य भोजितौ स्नानपूर्वकम् ॥१११।। पट्टाच्छादितवक्षा यो भोक्ष्यतेऽत्र वयस्ययुक् । त्वत्पुत्र्या स वरो भावी नैमित्तिकवाक्यतः ॥११२।। तेन बन्धुमतीपुत्री ब्रह्मदत्तो विवाहितः । कियत् कालं स्थितौ तत्रान्येधुर्मन्त्रिसुतोऽवदत् ॥११३॥ दूरं गन्तव्यमिति भोः ! कुमारः ससुहज्जवात् । ततो बन्धुमतीकान्तां सम्बोध्य प्रस्थितस्ततः ॥११४।। इत्यादिका ब्रह्मदत्तहिण्डिराश्चर्यभूता पूर्वटीकातोऽवसेया । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500