________________
४०६
उत्तरज्झयणाणि-१ जतुनो वासभवने चुलुन्यैव प्रदीपिते । स्वयं समन्ततस्तत्र हाहारव उदच्छलत् ॥१०२।। युग्मम् प्रबुद्धो ब्रह्मदत्तस्तु मूढहृद् ज्वलदोकसि । किं कर्तव्यमिति प्रोच्चैमित्रं वरधनुं जगौ ॥१०३।। तदाऽवादीद् वरधनुर्धनुज्ञापितकूणके । मित्र ! पाणिप्रहारेण सुरङ्गाऽऽस्यं प्रकाशय ॥१०४।। ब्रह्मदत्तोऽवदन्मित्रोत्थापय क्षितिपात्मजाम् । मन्त्रिसूराह मत्पित्रा सा दूतास्येन वारिता ॥१०५।। वर्त्तते काचिदन्यैषा ह्यस्यां रागं तु मा कृथाः । तेन द्वारं सुरङ्गाया लत्तयोद्घाटितं ततः ॥१०६॥ तद्वारेण विनिर्गत्य तौ सत्रागारमीयतुः । तत्र प्राग् धनुमन्त्रीशधृतजात्यतुरङ्गमौ ॥१०७।। मन्त्र्यादिष्टौ समारुह्य ततः सद्य पलायितौ । पञ्चाशद्योजनी प्राप्तौ कोट्टग्रामं क्रमाद् गतौ ।।१०८॥ युग्मम् स्थित्वोद्याने वरधनुः क्षुरिणाऽवापयच्छिरः । कुमारस्य स्वयं सद्यः परावत्तितवेषभृत् ॥१०९।। काषायिकानि वासांसि कुमार पर्यधापयत् । सश्रीवत्सं च तद्वक्षः पट्टेनाच्छादयत् स तु ॥११०।। ततो व्रजन्तौ ग्रामान्तर्द्विजेनैकेन वीक्षितौ । स्वमन्दिरे समाकार्य भोजितौ स्नानपूर्वकम् ॥१११।। पट्टाच्छादितवक्षा यो भोक्ष्यतेऽत्र वयस्ययुक् । त्वत्पुत्र्या स वरो भावी नैमित्तिकवाक्यतः ॥११२।। तेन बन्धुमतीपुत्री ब्रह्मदत्तो विवाहितः । कियत् कालं स्थितौ तत्रान्येधुर्मन्त्रिसुतोऽवदत् ॥११३॥ दूरं गन्तव्यमिति भोः ! कुमारः ससुहज्जवात् ।
ततो बन्धुमतीकान्तां सम्बोध्य प्रस्थितस्ततः ॥११४।। इत्यादिका ब्रह्मदत्तहिण्डिराश्चर्यभूता पूर्वटीकातोऽवसेया ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org