________________
४०७
त्रयोदशं चित्र-संभूतीयमध्ययनम्
एवं महीं भ्रमन् दीर्घराजभीत्या वयस्ययुक् । अनेकाः कन्यकाः कान्ताः स्थाने स्थाने विवाहयन् ॥११५।। कुर्वन् परोपकारं च कुतुकान्यवलोकयन् । वाराणस्याः सदुद्यानं ब्रह्मदत्तः समासदत् ॥११६।। युग्मम् पार्वे कटकराजस्य सुहृद् वरघनुर्गतः । हृष्टस्तु सोऽभ्यगाद् ब्रह्मदत्तं सबलवाहनः ॥११७।। पट्टेभस्कन्धमारोह्य कटकः कुमरं मुदा । नीतवान् स्वगृहं भूपः प्रवेशोत्सवपूर्वकम् ॥११८।। ससत्कारं स तत्रैनं स्वपुत्रीं कटकावतीम् । गजाश्वकोशसंयुक्तां प्रशस्तेऽह्नि व्यवाहयत् ॥११९।। ब्रह्मदत्तस्तया साकं निःशङ्कोऽनुभवन् भृशम् । सुखं वैषयिकं तत्रात्यवाहयदनेहसम् ॥१२०॥ अन्यदा कटकः प्राह कुमाराश्रय धीरताम् । विमुक्तपुरुषाकारैः स्थेयं कियदनेहसम् ॥१२१॥ ततो दूतैः समाहूताः सर्वेऽप्यागुर्महीक्षितः ।। पुष्पचूलादयोऽनेके ससैन्या धनुरप्यगात् ॥१२२।। ततस्तैरभिषिच्योच्चैः सुधीर्वरधनुर्बली । सेनापतित्वे प्राजिध्ये योद्धं दीर्घमहीभुजा ॥१२३।। दीर्घोऽपि निजकं दूतं कटकादिनृपान् प्रति । प्राहिणोद् वावदूकं तं ते सर्वे निरभर्सयन् ॥१२४॥ स्वयं तु ते ब्रह्मदत्तं पुरस्कृत्य प्रतस्थिरे । चतुरङ्गचमूपेताः प्रापुः काम्पील्यपत्तनम् ॥१२५।। तैनिरुद्धेऽभितो द्रले दीर्घराट् निरगात् पुरात् । किञ्चित् साहसमालम्ब्य सम्मुखं स्वकसैन्ययुक् ॥१२६॥ उभयोः सैन्ययोर्युद्धे जायमाने तदा मिथः । कुन्ताकुन्ति खड्गाखड्गि भग्नं दीर्घबलं क्षणात् ॥१२७॥ ततः पौरुषमाकृष्य योद्धं दीर्घोऽचलत् स्वयम् । ब्रह्मदत्तोऽपि तं प्रेक्ष्य ज्वलत्कोपानलो भृशम् ॥१२८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org