Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
10
सनियुक्ति-भाप्य-वृत्तिके बृहत्कल्पसूत्रे -[ अनुयोगाधिकारः ___ श्रमणी गौरवपारेवर्जिता गणिन्याः पुरत आलोचनां प्रयुक्ते। व? इत्याह-एकान्तेऽनापाते 'एका' अद्वितीया 'एकस्याः' अद्वितीयाया गणिन्या निश्रया । ततो गुरुसमीपे श्रमणस्येव श्रमण्या अपि गणिन्याः पुरत आलोचयन्त्याश्चतुष्कर्णा पर्षद् भवति ॥ ३९४ ॥ षटकर्णामाह
आलोयणं पउंजइ, एगते बहुजणस्स संलोए ।
अब्बितियथेरगुरुणो, संविईया भिक्खुणी निहुया ॥ ३९५ ॥ अद्वितीयस्थविरगुरुसमीपे सद्वितीया भिक्षुकी 'निभृता' निर्व्यापारा न दिशो नापि विदिश आलोकयति, .नापि यत्किञ्चिदुल्लापयतीत्यर्थः । एवम्भूता सती एकान्ते बहुजनस्य संलोके आलोचनां प्रयुते ॥ ३९५ ॥ अथ कीदृशी तस्या द्वितीया भवति ? इत्यत आह
नाण-दंसणसंपन्ना, पोढा वयस परिणया ।
. इंगियागारसंपन्ना, भणिया तीसे विइजिया ॥ ३९६ ॥ ज्ञान-दर्शनसम्पन्ना 'प्रौढा' समर्था या संयतस्य तस्या वा भावं विज्ञाय न मन्त्रणं कर्तुं ददाति, किन्तु वदति यद्यालोचितं तर्हि व्रजामो नो चेदालोचनयाऽपि न प्रयोजनमिति । तथा 'वयसा परिणता' परिणतवयाः । तथा 'इङ्गिताकारसम्पन्ना' इङ्गितेनाऽऽकारेण च यस्य 15 यादृशो भावस्तस्य तं जानातीत्यर्थः । एवम्भूता सा तस्या द्वितीया भणिता । सा पुनः किय
ह्रे तिष्ठति ? उच्यते--एके सूरयो वदन्ति-यत्रोभयोराकारा दृश्यन्ते तावन्मात्रे । अपरे ब्रुवते यत्र श्रवणं शब्दस्येति ॥ ३९६ ॥ अष्टकर्णामाह---
आलोयणं पउंजइ, एगंते बहुजणस्स संलोए ।
सब्बितियतरुणगुरुणो, सबिइया भिक्खुणी निहुया ॥ ३९७ ॥ 20 एकान्ते बहुजनस्य संलोके सद्वितीयस्य तरुणगुरोः समीपे सद्वितीया भिक्षुकी निभृता आलोचनां प्रयुक्ते । तत्र भिक्षुक्या यादृशी द्वितीया तादृशी प्रागुक्ता ॥ ३९७ ।। सम्प्रति यादृश आचार्यस्य द्वितीयस्तादृशमाह--
नाणेण दंसणेण य, चरित्त-तव-विणय-आलयगुणेहिं ।
वयपरिणामेण य अभिगमेण इयरो हवइ जुत्तो ।। ३९८ ॥ 25 ज्ञानेन दर्शनेन चारित्रेण तपसा विनयेन 'आलयगुणैः' बहिश्चेष्टाभिः प्रतिलेखनादिभिरुपशमगुणेन च तथा वयःपरिणामेन 'अभिगमेन' सम्यकशास्त्रार्थकौशलेन युक्तो भवति आचार्यस्य 'इतरः' द्वितीयः ॥ ३९८ ॥ . उक्ता पञ्चप्रकाराऽपि पर्षद् । सम्प्रति 'कयाऽधिकारः ?" इति प्रतिपादयति
छत्तंतियाएँ पगयं, जइ पुण सा होजिमेहि उववेया । .
तो देति जेहिं पगयं, तदभावे ठाणमादीणि ॥ ३९९ ॥ अत्र च्छत्रान्तिकया पर्षदा 'प्रकृतम्' अधिकारः । शेषाः पर्पद उच्चरितसदृशा इति प्ररूपिताः । तत्र यदि सा छत्रान्तिका पर्षद 'एभिः' वक्ष्यमाणैर्गुणैरुपेता भवति तदा यकाभ्या
१ सब्बितिया ता०॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296