Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 224
________________ 15 भाष्यगाथाः ६१४-१९] पीठिका। मुत्पादनीयानि ततः को विधिः? इत्याह-'एवमपि' सूत्रपौरुषीहापनेऽप्येकसङ्घाटकेनालभ्यमाने बहूनां चोत्पादयितव्ये सङ्घाटकमेकैकं व्यापारयेत् । तेऽपि तथैव याचन्ते "भिक्खं चिअ हिंडता" इत्यादि । अथ तथापि न प्राप्नुयुस्ततः “वृन्दसाध्यानि कार्याणि" इति वचनाद् वृन्देन पर्यटन्ति ॥ ६१६ ।। आह च एवं पि अलब्भंते, मुत्तूण गणिं तु सेसगा हिंडे । गुरुगमणे गुरुग ओहामऽभियोगो सेहहीला य ॥ ६१७ ॥ 'एवमपि' बहुभिः सङ्घाटकैरप्यलभ्यमाने 'गणिनम्' आचार्यमेकं मुक्त्वा शेषाः सर्वेऽपि वृन्देन हिण्डन्ते । यदि गुरवः स्वयमेव पर्यटन्ति तदा तेषां गुरूणां गमने चत्वारो गुरुकाः । "ओहामि"ति 'यद्यमी आचार्या अपि सन्त एवमितरभिक्षुवत् पर्यटन्ति नूनमेतेषामाचार्यत्वमपीदृशमेव' इति महती गुरूणामपभ्राजना भवेत् । तथा काचिदविरतिका सर्वाङ्गीणलावण्य-10 श्रियाऽलङ्कतमाचार्यमवलोक्य मदनपरवशा सती “अभियोग"त्ति कार्मणं कुर्यात् । अन्यती. र्थिका वा आचार्याणां प्रतापमसहमाना विषप्रयोगं प्रयुञ्जीरन् । अवभाषितेषु वा वस्त्रेवलब्धेषु शैक्षाणामाचार्यविषया हीला स्यात्-दृष्टा आचार्याणां लब्धिः, स्वयमपि याचमानाचीवराण्यपि न लभन्ते । यस्मादेते दोषास्तस्मादाचार्यैर्न पर्यटनीयं शेषाः सर्वेऽपि पर्यटन्ति ॥६१७॥ सव्वे वा गीयत्था, मीसा व जहन्न एकु गीयत्थो । इकस्स वि असईए, करिति तो कप्पियं एकं ॥ ६१८ ॥ ते च वृन्देन पर्यटन्तः सर्वेऽपि गीतार्था भवेयुः मिश्रा वा । मिश्रा नाम केचन गीतार्थाः केचनागीतार्थाः । तत्र यदि बहवो गीतार्था न प्राप्यन्ते तदा जघन्यत एको गीतार्थः सर्वेषामगीतार्थानामग्रणीभूय पर्यटति । अथ नास्त्याचार्य मुक्त्वाऽपरः कोऽपि गीतार्थः तत एकस्थापि गीतार्थस्य 'असति' अभावे यः प्रगल्भः सलब्धिकश्च तमेकं वस्त्रैषणामुत्सर्गापवादस-20 हितां कथयित्वा कल्पिकं कुर्वन्ति गुरव इति ।। ६१८ ॥ अथ तैः केन विधिना गन्तव्यम् ? उच्यते आवाससोहि अखलंत समग उस्सग्ग दंडग न भूमी। पुच्छा देवय लंभे, न किंपमाणं धुवं दाहि ॥ ६१९ ॥ इह समयपरिभाषया कायिकी-संज्ञाव्युत्सर्जनमवश्यं क्रियत इति व्युत्पत्तेरावश्यकमभिधी- 25 यते, तस्य शोधिः-शोधनं कार्यम् , वस्त्राणामुत्पादनाय गतानां भविष्यति न वेति प्रथममेवाऽऽवश्यकं शोधनीयमित्यर्थः । “अखलंत"त्ति उत्तिष्ठतां पादयोः शिरसि वा स्खलनं यथा न भवति तथोत्थातव्यम् ; यद्वा गुरुवचनमस्खलद्भिः-अविकुट्टयद्भिरुत्थातव्यम् । “समग"ति सर्वैरपि समकमुत्थानं कर्त्तव्यम् , न पुनरेके उत्थिताः प्रतीक्षन्ते अन्येऽद्याप्युपविष्टाः; अथवा समकं सर्वैरुपयोगसम्बन्धी कायोत्सर्गः कर्तव्यः । दण्डकाः कायोत्सर्गादारभ्य यावन्नाद्यापि 30 प्रथमलाभस्तावन्न भूमौ स्थापयितव्याः । अपरे पुनर्यावद् व्यावृत्त्य न प्रतिश्रयमागताः तावदिति ब्रुवते । "पुच्छ"ति शिष्यः पृच्छति-किंनिमित्तं कायोत्सर्गः क्रियते ? किं देवताऽऽ. राधनार्थ यदसावाराधिता सती वस्त्राण्युत्पादयति ? आहोश्चित् कायोत्सर्गप्रभावादेव वस्त्राणां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296