Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 251
________________ भ्यो भ्रंशः 10 २१० सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे अनुयोगाधिकारः चानेनैव भावतोऽपचयमन्देन प्रकृतम् , शेषास्तु शिष्यमतिविकाशनार्थं प्ररूपिताः । अथवा 'तलिना' सूक्ष्मा कुशाग्रीया बुद्धिः श्रेष्ठा, ततः सा सूक्ष्मतन्तुव्यूतपटीवद् अन्तःसारवत्वेन अशा उपचितेति कृत्वा यः कुशाग्रीयमतिः स उपचयभावमन्दः । यस्तु परिस्थूरमतिः स बुद्धेः स्थूलसूत्रतया- स्थूलशाटिकाया इव अन्तर्निःसारतालक्षणमपचयमधिकृत्यापचयभावमन्द इति । अतः केचिदाचार्या उभयमप्यपचयमन्दमिच्छन्ति, प्रथमव्याख्यानापेक्षया निर्बुद्धिकं द्वितीयव्याख्यानपक्षे तु परिस्थूखुद्धिकमपचयभावमन्दमत्र प्रस्तावे गृहन्तीति भावः ॥ ६९७ ॥ अथ यदुक्तं नियुक्तिगाथायाम् "होहिइ वोसट्ठतिट्ठाणो" (गा०६९४) ति तत्र कानि पुनस्तानि त्रीणि स्थानानि यानि तेन परित्यक्तानि ? उच्यतेएकाकिविहारिणां नाणाई तिहाणा, अहवण चरणऽप्पओ पवयणं च । ज्ञानादि सुत्त-ऽस्थ-तदुभयाणि व, उग्गम उप्पायणाओ वा ॥ ६९८॥ एकाकी 'ज्ञानादीनि ज्ञान-दर्शन-चारित्राणि त्रीणि स्थानानि वक्ष्यमाणनीत्या परित्यजतीति । “अहवण" ति अखण्डमव्ययमथवार्थे, चरणमात्मा प्रवचनं चेति वा त्रीणि स्थानानि, तत्रागीतार्थतयाऽसौ षट्कायविराधनया चरणम् , अतिप्रचुराहारभक्षणादिना ग्लानत्वाद्याप चावात्मानम्, अयतनया संज्ञाव्युत्सर्गादिना प्रवचनं च परित्यजति । अथवा सूत्रा-ऽर्थ-तदु16 भयानि त्रीणि स्थानानि, तत्रासावेकाकितया कदाचित् सूत्रं विस्मारयति कदाचिदर्थ कदाचित् तदुभयम् । यद्वा उद्गमो(म उत्पादना वाशब्दादेषणा चेति त्रीणि स्थानानि, तानि च निरङ्कुशत्वादेकाकी परित्यजतीति प्रकटमेव ॥ ६९८ ॥ अथ यथाऽसौ ज्ञान-दर्शन-चारित्राणि परिहरति तथाऽभिघित्सुराह अप्पुवस्स अगहणं, न य संकिय पुच्छणा न सारणया । 20 गुणयंते अ अदटुं, सीदइ एगस्स उच्छाहो ॥६९९।। अपूर्वस्य श्रुतस्याग्रहणम्, एकाकितया पाठयितुरभावात् । न च शतिते सूत्रेऽथे वा कस्यापि पावें प्रच्छनम् । न वा सूत्रमर्थं वा विकुट्टयतः 'सारणा' शिक्षणा 'मैवं पाठीः' इत्यादिका भवति । तथाऽपरान् साधून 'गुणयतः' परावर्त्तयतोऽदृष्ट्वा 'सीदति' परिहीयते 'एकस्य' एकाकिनः 'उत्साहः' सूत्रा-ऽर्थपरावर्त्तनायामभियोग इति ॥ ६९९ ॥ 25 उक्तो ज्ञानपरिहारः । सम्प्रति दर्शन-चरणयोः परिहारमाह चरगाई वुग्गाहण, न य वच्छल्लाइ दंसणे संका । थी सोहि अणुञ्जमया, निप्पग्गहया य चरणम्मि ॥ ७०० ॥ चरकादिभिः' कणाद-सौगत-साङ्ख्यप्रभृतिभिः पाषण्डिभिः कुयुक्तियुक्ताभिरुक्तिभियुद्वाहणमगीतार्थतया तस्य भवेत् , न चासावेकाकितया साधर्मिकाणां वात्सल्यम् आदिशब्दा १°नार्थमुच्चारितसदृशा इति कृत्वा प्ररूपिताः। अथ प्रकारान्तरेण भावत एवोपचया-ऽपचयमन्दद्वयमाह-"तलिना बुद्धी" इत्यादि । 'तलिना' भा० ॥ २ डे० त• विनाऽन्यत्र-यदुक्तं "होहिइ मो० ले० का० । यदुक्तं सङ्ग्रहगाथायाम् “होहिइ भा० ॥ ३°नानि द्रष्टव्यानि । “अह° भा० ॥ ४ तस्यैकाकिनः 'चरकादिभिः' चरक-चीरिका-सौगत भा० ॥ ५°भिः 'व्युदाहणं' विपरिणामनमगीतार्थतया भवेत् भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296