Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 290
________________ भाष्यगामा ७८८-९३] पीठिका । २१९ प्रथमः, अस्य भावना-कश्चित् प्रातीच्छिको गच्छान्तरादागम्य सूत्राध्ययनार्थमुपसम्पन्नः, स चाऽऽचारनुज्ञातः-आर्य ! उपाध्यायस्य सकाशेऽधीप्वेति; ततः स उपाध्यायस समीपे गत्वा ब्रूते-भगवन् ! गुरुमिरहमादिष्टो भवतां पादमूले पठनार्थमिति; तत उपाध्यायेनागत्याचार्याः प्रच्छनीयाः, यथा--क्षमाश्रमणाः! पाठयाम्यहममुकं साधुम् । इति; ततो गुरुभिः 'बाढम्' इत्युक्ते स उपाध्यायेन पाठनीयः; एवंकुर्वन् अनुज्ञातमनुज्ञातो वाचयतीति अभि.. धीयते, एष प्रथमो मङ्गः शुद्धः । अनुज्ञातमननुज्ञात इति द्वितीयः, तद्भावना-स साधुराचार्यभणितः-पठोपाध्यायान्तिके, स चैवमादिष्टः पठितुमुपस्थित उपाध्यायसन्निधौ, स उपाध्यायो यद्याचार्यानपृष्ट्वा तं पाठयति तत उपाध्यायस्य मासलघु । अननुज्ञातमनुज्ञात इति तृतीयः, अत्र चाचार्यैरुपाध्यायस्तस्य साधोः शृण्वतः सन्दिष्टः-आर्य! पाठयेरमुं साधुमिति, न पुनरितरः सन्दिष्टः, ततः स उपस्थितः सन्नुपाध्यायेन प्रश्ननीयः-सौम्य ! क्षमाश्रमणैः 10 सन्दिष्टस्त्वम् ? न वा ? इति; स प्रतिब्रूयात्-'मया युष्माकमादेशो दीयमानः श्रुतो न पुनरहं सन्दिष्टः' इत्युक्ते यद्यपाध्यायः पाठयति तदा द्वयोरप्यध्यापका-ऽध्यायकयोर्मासलघुः अथ न पाठयति तत उपाध्यायः शुद्धः। अननुज्ञातमननुज्ञातो वाचयतीति चतुर्थो भङ्गः, अत्र चोपाध्यायोऽप्यननुज्ञातः शिष्योऽप्यननुज्ञात इति कृत्वा द्वयोरपि मासलघु । अत एवाह"शेषेषु' प्रथमभङ्गव्यतिरिक्तेषु भङ्गेषु मासलघु । गाथायां प्राकृतत्वात् सप्तम्यर्थे षष्ठी । अवि-16 नयादयश्च दोषा भवन्ति, आदिशब्दाद् अनवस्था-अन्येषामपि यदृच्छयाऽध्ययना-ऽध्यापनलक्षणा इत्यादयो दोषाः परिगृह्यन्ते ॥ ७९१ ॥ गतमनुज्ञातद्वारम् । अथ भावतः परिणामक इति द्वारं व्याख्यायते-अत्र च भावग्रहणाद द्रव्य-क्षेत्र-काला अपि गृहीता द्रष्टव्याः, परिणामकप्रक्रमाचाऽपरिणामका-ऽतिपरिणामकावपि व्याख्येयाविति चेतसि व्यवस्थाप्ये सूरिरिमां नियुक्तिगाथामाह 20 परिणाम अपरिणामे, अइपरिणाम पडिसेह चरिमदुए । परिणामअंबाईदिटुंतो, कहणा य इमेहिँ ठाणेहिं ॥ ७९२ ॥ परिणामका-ऽपरिणामका-ऽतिपरिणामकानां प्ररूपणा कर्तव्या । प्रतिषेधः 'चरमद्विकस्य' अपरिणामका-ऽतिपरिणामकयुगलस्य कर्तव्यः, अनयोश्छेदश्रुतं न दातव्यमिति भावः । एषां च त्रयाणामपि परीक्षार्थमाम्रादिदृष्टान्तो वक्तव्यः, आदिशब्दाद् वृक्ष-बीजपरिग्रहः । तया च 25 परीक्षया तेषामभिप्राये गृहीते सति 'कथना' प्रतिवचनम् 'एभिः' वक्ष्यमाणैः 'स्थानः' प्रकारैराचार्येण कर्तव्येति ॥ ७९२ ॥ अथैनामेव गाथां विवृणोतिजो दव्व-खेत्तकय-काल-भावओ जं जहा जिणक्खायं । परिणामकः तं तह सद्दहमाणं, जाणसु परिणामयं साधु ॥ ७९३ ॥ १शेषाणां' प्रथमभङ्गव्यतिरिक्तानां त्रयाणां भङ्गानां मासलघु । अविनया भा०॥ २°प्य परिणामिकादित्रयप्रतिबद्धामिमां द्वारगाथामाह भा०॥ ३°कस्य यु त. डे.॥ ४ विवरीषुराह भा० ॥ बृ. ३२ कद्वारम Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296