Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 289
________________ विन्तिणि कादीनां सूत्रार्थ प्रदाने प्रायचि तम् अनुज्ञातद्वारम् २४८ निर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनुयोगाधिकारः 'भासस्य' शकुन्तोन्यस्य पक्षिणो गलके नाऽऽविध्यते, अयोग्यत्वात् ; एवमस्यापि गुरुनिहोतुरत्यन्तापात्रभूतस्य श्रुतरत्नप्रदानमनुचितमिति न विधेयम् ॥ ७८७ ॥ गतं निह्नवद्वारम् । अत्र च तिन्तिणिक - चलचित्त- गाणङ्गणिक दुर्बलचारित्रा-ऽऽचार्यपरिभाषि-वामावर्त्त-पिशुना-ऽकृतसामाचारीक -गर्वित प्रकीर्ण-निह्वैविनः एकादशाऽपात्रभूताः शिष्याः, B आदिमादृष्टभावोऽप्राप्तः, तरुणधर्मा पुनरव्यक्तः । अथैषां सूत्रार्थप्रदाने प्रायश्चितमाहअव्वत्ते अ अपत्ते, लहुगा लहुगा य होंति अप्पत्ते । लहुगा य दव्वतितिणि, रसतिंतिणि होंति चतुगुरुगा ॥ ७८८ ॥ अव्यक्तः—तरुणधर्मा तस्य तथा " अपते" त्ति अपात्राणामेकादश सङ्ख्याकानां सूत्रार्थी यदि ददाति तदा चत्वारो लघुकाः । “लहुगा य होंति अप्पत्ते " ति अप्राप्तः - आद्यदृष्टभावस्तस्य 10 ददाति चत्वारो लघुकाः । अत्रैव विशेषमाह – “लहुया य दव " इत्यादि । द्रव्यतिन्तिणिकस्य ददाति चत्वारो लघवः । 'रसतिन्तिणिकस्य' आहारतिन्तिणिकस्य ददाति चत्वारो गुरवः । उपधि-शय्यातिन्तिणिकयोर्ददानस्य चत्वारो लघव इत्यनुक्तमप्यत्रावसातव्यम्, निशीथचूर्णावुक्तत्वात् ॥ ७८८ ॥ 15 20 खेत्तं कालं पुरिसं, नाऊण पगासए गुज्झं ॥ ७९० ।। यस्मादेवं प्रायश्चित्तमभिहितं तस्मात् तिन्तिणिकादीनामाचार्येण 'प्रवचनरहस्यम्' अपवादपदं ' न कथयितव्यम्' न प्ररूपणीयमिति । कथं पुनः कथयितव्यम् ? इत्याह- ' क्षेत्रम् ' अध्वादिकं प्रवेष्टव्यं ज्ञात्वा प्रथमतोऽध्वकल्पादिकं प्रवचनरहस्यभूतमपरिणतानामपि कथयित -- व्यम्, अन्यथा तेषां मार्गे गच्छतां संयमा-ऽऽत्मविराधना स्यात् । एवं 'कालमपि' दुर्भिक्षादि - 25कमागमिष्यन्तमागतं वा ज्ञात्वा यथायोगमपरिणतानामपि राहसिकश्रुतार्थं प्रकाशयेत् । 'पुरुषं वा' परिणामकलक्षणम् उपलक्षणत्वाद् भावं वा - ग्लान- बाल-वृद्धा - ऽसहिष्णुप्रभृतीनामुपग्रहकरणादिलक्षणं ज्ञात्वा प्रकाशयेद् 'गुहां' छेदश्रुतरहस्यभूतमपवादपदमिति ॥ ७९० ॥ व्याख्यातं "पत्ते अ" ति द्वारम् । अथानुज्ञातद्वारमाह- अंतो हिं च गुरुगा, आयरिय - गिलाण - बाल बिहअपयं । आयरियपारिभासिस्स होंति चउरो अणुग्धाया ।। ७८९ ॥ आहारोपधि-शय्याविषयामन्तर्बहिर्वा संयोजनां कुर्वतश्चत्वारो गुरवः । आचार्य-ग्लान- बालादीनामर्थाय द्वितीयपदं भवति, एतदर्थं संयोजनामपि कुर्वन् शुद्ध इत्यर्थः । आचार्य परिभाषिणः पुनश्चत्वारोऽनुद्धाताः प्रायश्चित्तम् ॥ ७८९ ॥ अथोपसंहरन्नाह - तेम्हा न कहेयव्वं, आयरिएणं तु पवयणरहस्सं । 30 चउभंगो अणुण्णाए, अणणुनाए अ पढमतो सुद्धो । साणं मासलहू, अविणयमाई भवे दोसा ।। ७९१ ॥ अत्रानुज्ञाता-ऽननुज्ञातपदाभ्यां चतुर्भङ्गी कार्या, तद्यथा - अनुज्ञातमनुज्ञातो वाचयतीति १ “भासो मीढसउणओ” इति चूर्णो ॥ २°न्तापरपर्यायस्य प° भा० ॥ ३ 'हवा ए भा० ॥ ४ बहि चतुगुरुगा ता० ॥ ५ आयरिएणं तम्हा, ण कहेयव्वं तु पव ता० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296