Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 287
________________ २४६ सनियुक्ति-भाष्य-वृत्तिके वृहत्कल्पसूत्रे [अनुयोगाधिकारः यदपि तदपि लपैन्तस्तिष्ठन्ति । तेषाम् 'अगदोऽपि' विषापहारकमप्यौषधं 'विषायते' विषरूपतया परिणमते श्रुतरूपम् । स तथा चैतदर्थसंवादकमेवेदं सूक्तम् ज्ञानं मद-दर्पहरं, माद्यति यस्तेन तस्य को वैद्यः ? । अमृतं यस्य विषायति, तस्य चिकित्सा कथं क्रियते ॥ ॥७८३ ॥ । गतं गर्वितद्वारम् । अथ प्रकीर्णकद्वारमाहप्रकीर्णः सोउं अणभिगताणं, कहेइ अमुगं कहिजई इत्थं । एस उ पइण्णपण्णो, पइण्णविजो उ सव्वं पि ॥ ७८४ ॥ अर्थमण्डल्यां यो राहसिकग्रन्थार्थं श्रुत्वा उत्थितः सन् 'अनभिगतानाम्' अपरिणतानां लेशोद्देशतः कथयति—यथा 'अमुकं' प्रलम्बग्रहणादिकम् 'अत्र' सूत्रे कल्पनीयतया कथ्यते; 10 एष प्रकीर्णप्रज्ञः । प्रज्ञाशब्देनेह प्रकर्षेण ज्ञायते उत्सर्गा-ऽपवादतत्त्वमनयेति व्युत्पत्त्या छेदसूत्रान्तर्गता रहस्यवचनपद्धतिरुच्यते, सा प्रकीर्णा-विक्षिप्ता येन स प्रकीर्णप्रज्ञः । “प्रकीर्णप्रश्नः" ("पइण्णपण्हो") इति वा पाठः, तत्र चापरिणतः 'किमेतद् रहस्यभूतमत्राभिधीयते?' इत्युल्लेखेन पृच्छयत इति प्रश्नः-छेदश्रुतान्तःपाती रहस्यार्थ इत्यर्थः, स प्रकीर्णो येन स प्रकीर्णप्रश्न इति । तथा प्रकीर्णविद्यस्तु सर्वमप्यादेरारभ्य पर्यन्तं यावत् छेदश्रुतमुत्सर्गा16 ऽपवादसहितमपरिणतानां कथयति । विद्याशब्देन चात्राऽखण्डं छेदश्रुतमभिधीयते, प्रकीर्णा विद्या येन स प्रकीर्णविद्य इति ।। ७८४ ॥ अथ द्विविधस्यापि प्रकीर्णव्याकर्तुर्दोषानाह अप्पच्चओ अकित्ती, जिणाण ओहाव मइलणा चेव । दुल्लहबोहीअत्तं, पावंति पइण्णवागरणा ॥ ७८५ ॥ अपरिणतादीनां राहसिकेषु पदेषु ज्ञाप्यमानेषु 'अप्रत्ययः' अविश्वासो भवति; पूर्वापरवि20रुद्धमिदं शास्त्रम् , यतः पूर्व "न कल्पते तालप्रलम्ब प्रतिग्रहीतुम्" इति प्ररूप्य पश्चात् "कल्पते" इत्यनुज्ञायाः प्रतिपादनात् ; यथा चैतदलीकं तथा सर्वमपि जिनवचनमीदृशमेवेति । ते चैवं विपरिणताः सन्तः 'जिनानां' तीर्थकृतामकीर्ति कुर्युः, कुत एषां सर्वज्ञत्वम् ? यैरीदृशं पूर्वापरव्याहतं भाषितमिति । ततश्च ते "ओहाव"त्ति 'अवधावनम्' उत्प्रव्रजनं कुर्वीरन् । अथ नोत्प्रव्रजेयुस्तथापि "मइलण" ति तेषामद्याप्यपरिणतत्वादपवादपदं श्रुत्वाऽपरि25 णामकत्वेनातिपरिणामकत्वेन वा शङ्कादिदोषतो ज्ञानादीनां 'मलिनता' मालिन्यं स्यादिति । ततश्चैवमप्रत्ययादिकं जनयन्तो दुर्लभबोधिकत्वं प्राप्नुवन्ति, क एते ? इत्याह-'प्रकीर्णव्याक १°पन्ते-झलझलायन्ते । एवंविधानां च तेषाम् मो. ले. ॥ २ एतदन्तर्गतः पाठः डे. त• कां० नास्ति ॥ ३°नाम्' अनधीतश्रुतानामपरिणतादीनां पृष्टो वाऽपृटो वा लेशोद्देशतो रहस्यभूतमर्थ कथयति, यथा-'अमुकं' प्रलम्बग्रहणादिकमत्र कथ्यत इति एष भा० । “सोउं अण• गाधा। अस्थमंडलीए सुणेत्ता उद्वितो अणभिगताणं अयोग्यानामित्यर्थः पुच्छितो अपुच्छितो वा कधेति-एवं एत्थ कधेजति, जधा-पुढवीकायादी वि छक्काया कप्पंति, पंच य महव्वयाई वितधं करेजा, एस पइण्णपण्हो" इति चूर्णिः ॥ ४ सूत्रे कथ्यते डे. त• विना ॥ ५°णतादिभिः 'कि भा०॥ ६ स्यार्थः स प्रभा० डे० त० ॥ ७°षमाह भा०॥ ८°स्ततः "म° भा० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296