Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 284
________________ आद्यदृष्ट. भाव: अकृत भाष्यगाथाः ७७२-७८] पीठिका। २४३ सञ्जिघृक्षुराह-"गुरुगा" इत्यादि । 'चतुर्णाम्' आचार्यो-पाध्याय-भिक्षु-क्षुल्लकरूपाणां पैशून्यकरणे विषयभूतानां कर्तृभूतानां वा यथाक्रमं गुरुकादयो यावद् लघुको मासः प्रायश्चितम् । 'अथवा' इति प्रकारान्तरोपन्यासे, सामान्यतः संयतः संयतेषु पैशून्यं करोति तत्रास. हृषणविषये पैशून्ये चत्वारो लघवः, सद्दूषणविषये लघुको मासः । एते एव प्रायश्चित्ते गृहिषु गुरुके अवसातव्ये । तद्यथा-गृहस्थेषु असद्भिर्दोषैः पैशून्यं करोति चत्वारो गुरवः, सद्भिः । करोति गुरुमासः ॥ ७७५ ॥ अथादिमादृष्टभावद्वारं विवृणोति आवासगमाईया, सूयगडा जाव आइमा भावा । ते उ न दिहा जेणं, अदिट्ठभावो हवइ एसो ॥ ७७६ ॥ आवश्यकादयः सूत्रकृताङ्गं यावद् ये आगमग्रन्थास्तेषु ये पदार्थाः अभिधेयास्ते आदिमा भावा उच्यन्ते । 'ते तु' ते पुनर्भावा येन न दृष्टाः-नावगताः स एषोऽदृष्टभाव इति, उप- 0. लक्षणत्वाद् आदिमादृष्टभावो भवतीति ।। ७७६ ॥ अथाकृतसामाचारीकद्वारं बिभावयिषुः सामाचारीखरूपं तावदाह दुविहा सामायारी, उवसंपद मंडलीऍ बोधवा । अणालोइयम्मि गुरुगा, मंडलिमेरं अतो वोच्छं । ७७७॥ सामा चारीकः सामाचारी द्विविधा-उपसम्पदि मण्डल्यां च बोद्धव्या । तत्रोपसम्पत् त्रिविधा-ज्ञानो-15 पसम्पद् दर्शनोपसम्पत् चारित्रोपसम्पत् । आसां च सामान्यत इयं सामाचारी-गच्छान्तरादुपसम्पदः प्रतिपत्त्यर्थमायातः साधुः पर्यनुयोक्तव्यः-'वत्स ! कस्त्वम् ? कुतो वा गच्छादागतोऽसि ? किंनिमित्तमिहायातः ?' इत्येवं यद्यपर्यनुयुज्य तस्योपसम्पदं प्रतीच्छति तदा 'अनालोचिते' अपर्यनुयुक्ते सति चत्वारो गुरुकाः । यद्वा 'अनालोचिते' आलोचनामदापयित्वा यदि तं परिभुते वाचयति वा तदा चत्वारो गुरुकाः । अत्र च ज्ञानोपसम्पदाऽधि- 20 कारः। “मंडलिमेरं अतो वोच्छं" ति मण्डली-सूत्रार्थमण्डलीरूपा तस्याः सम्बन्धिनी मर्यादां-सामाचारी अत ऊद्धं वक्ष्ये ॥ ७७७ ॥ प्रतिज्ञातमेवाहसुत्तम्मि होइ भयणा, पमाणतो यावि होइ भयणा उ ! मण्डल्यो. अत्थम्मि उ जावइया, सुणिति थेवेसु अन्ने वि ७७८ ॥ र्व्यवस्था 'सूत्रे' सूत्रमण्डल्यां निषद्यायां भजना कार्या-यदि तरुणो निरुपहतशरीरश्चाऽऽचार्यों न च 2 निषद्याप्रियस्ततो न क्रियते निषद्या, अथ स्थविर आमयावी वा तरुणो वा निषद्याप्रियः ततः क्रियते । प्रमाणतोऽपि सूत्रमण्डल्यां निषद्याविषये भजना । किमुक्तं भवति ?--कदाचिद् एकस्मिन् कल्पे कदाचिद् द्वयोस्त्रिषु यावन्मात्रेषु वा कल्पेषूपविष्टः सुखेनैव वाचनां ददाति तावद्भिः कल्पैर्निषद्या क्रियते । 'अर्थ' अर्थमण्डल्यां पुनर्यावन्तः साधवोऽर्थे शृण्वन्ति तावन्तः सर्वेऽप्यवश्यन्तया खं खं कल्पं निषद्याकारकस्य प्रयच्छन्ति, स च तैः कल्पैर्निषद्यां रचयति । 30 अथ स्तोका एवानुयोगं ग्रहीतारस्ततः स्तोकेषु सत्सु 'अन्येऽपि' अनुयोगमश्रोतारोऽपि यावद्भिनिषद्या भवति तावतः कल्पानर्पयन्ति ।। ७७८ ॥ अथार्थमण्डल्या एव विधिमाह मजण निसिज अक्खा, किइकम्मुस्सग्ग वंदणग जेट्टे । सूत्रार्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296