________________
आद्यदृष्ट. भाव:
अकृत
भाष्यगाथाः ७७२-७८]
पीठिका।
२४३ सञ्जिघृक्षुराह-"गुरुगा" इत्यादि । 'चतुर्णाम्' आचार्यो-पाध्याय-भिक्षु-क्षुल्लकरूपाणां पैशून्यकरणे विषयभूतानां कर्तृभूतानां वा यथाक्रमं गुरुकादयो यावद् लघुको मासः प्रायश्चितम् । 'अथवा' इति प्रकारान्तरोपन्यासे, सामान्यतः संयतः संयतेषु पैशून्यं करोति तत्रास. हृषणविषये पैशून्ये चत्वारो लघवः, सद्दूषणविषये लघुको मासः । एते एव प्रायश्चित्ते गृहिषु गुरुके अवसातव्ये । तद्यथा-गृहस्थेषु असद्भिर्दोषैः पैशून्यं करोति चत्वारो गुरवः, सद्भिः । करोति गुरुमासः ॥ ७७५ ॥ अथादिमादृष्टभावद्वारं विवृणोति
आवासगमाईया, सूयगडा जाव आइमा भावा ।
ते उ न दिहा जेणं, अदिट्ठभावो हवइ एसो ॥ ७७६ ॥ आवश्यकादयः सूत्रकृताङ्गं यावद् ये आगमग्रन्थास्तेषु ये पदार्थाः अभिधेयास्ते आदिमा भावा उच्यन्ते । 'ते तु' ते पुनर्भावा येन न दृष्टाः-नावगताः स एषोऽदृष्टभाव इति, उप- 0. लक्षणत्वाद् आदिमादृष्टभावो भवतीति ।। ७७६ ॥ अथाकृतसामाचारीकद्वारं बिभावयिषुः सामाचारीखरूपं तावदाह
दुविहा सामायारी, उवसंपद मंडलीऍ बोधवा । अणालोइयम्मि गुरुगा, मंडलिमेरं अतो वोच्छं । ७७७॥
सामा
चारीकः सामाचारी द्विविधा-उपसम्पदि मण्डल्यां च बोद्धव्या । तत्रोपसम्पत् त्रिविधा-ज्ञानो-15 पसम्पद् दर्शनोपसम्पत् चारित्रोपसम्पत् । आसां च सामान्यत इयं सामाचारी-गच्छान्तरादुपसम्पदः प्रतिपत्त्यर्थमायातः साधुः पर्यनुयोक्तव्यः-'वत्स ! कस्त्वम् ? कुतो वा गच्छादागतोऽसि ? किंनिमित्तमिहायातः ?' इत्येवं यद्यपर्यनुयुज्य तस्योपसम्पदं प्रतीच्छति तदा 'अनालोचिते' अपर्यनुयुक्ते सति चत्वारो गुरुकाः । यद्वा 'अनालोचिते' आलोचनामदापयित्वा यदि तं परिभुते वाचयति वा तदा चत्वारो गुरुकाः । अत्र च ज्ञानोपसम्पदाऽधि- 20 कारः। “मंडलिमेरं अतो वोच्छं" ति मण्डली-सूत्रार्थमण्डलीरूपा तस्याः सम्बन्धिनी मर्यादां-सामाचारी अत ऊद्धं वक्ष्ये ॥ ७७७ ॥ प्रतिज्ञातमेवाहसुत्तम्मि होइ भयणा, पमाणतो यावि होइ भयणा उ !
मण्डल्यो. अत्थम्मि उ जावइया, सुणिति थेवेसु अन्ने वि ७७८ ॥
र्व्यवस्था 'सूत्रे' सूत्रमण्डल्यां निषद्यायां भजना कार्या-यदि तरुणो निरुपहतशरीरश्चाऽऽचार्यों न च 2 निषद्याप्रियस्ततो न क्रियते निषद्या, अथ स्थविर आमयावी वा तरुणो वा निषद्याप्रियः ततः क्रियते । प्रमाणतोऽपि सूत्रमण्डल्यां निषद्याविषये भजना । किमुक्तं भवति ?--कदाचिद् एकस्मिन् कल्पे कदाचिद् द्वयोस्त्रिषु यावन्मात्रेषु वा कल्पेषूपविष्टः सुखेनैव वाचनां ददाति तावद्भिः कल्पैर्निषद्या क्रियते । 'अर्थ' अर्थमण्डल्यां पुनर्यावन्तः साधवोऽर्थे शृण्वन्ति तावन्तः सर्वेऽप्यवश्यन्तया खं खं कल्पं निषद्याकारकस्य प्रयच्छन्ति, स च तैः कल्पैर्निषद्यां रचयति । 30 अथ स्तोका एवानुयोगं ग्रहीतारस्ततः स्तोकेषु सत्सु 'अन्येऽपि' अनुयोगमश्रोतारोऽपि यावद्भिनिषद्या भवति तावतः कल्पानर्पयन्ति ।। ७७८ ॥ अथार्थमण्डल्या एव विधिमाह
मजण निसिज अक्खा, किइकम्मुस्सग्ग वंदणग जेट्टे ।
सूत्रार्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org