________________
२४४
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः परियाग जाइ सुअ सुणण समत्ते भासई जो उ ॥ ७७९॥ 'मार्जनम्' अनुयोगमण्डल्याः प्रमार्जनं तत्प्रथमतः कर्तव्यम् । ततो निषद्याद्वयं रचनीयम्-एका गुरूणामपरा पुनरक्षाणाम् । ततोऽक्षाः प्रमायं निषद्याया उपरि स्थापनीयाः । ततः 'कृतिकर्म' वन्दनकं गुरूणां दातव्यम् । ततोऽनुयोगप्रस्थापनार्थम् 'उत्सर्गः' कायोउत्सर्गः, तत्र चाष्टावुच्छासाश्चिन्तनीयाः । ततः पञ्चमङ्गलमुच्चार्य च्छोभवन्दनकं दत्त्वा "नाणं पंचविहं पण्ण" इत्यादिना नन्द्याकर्षणे कृते ज्येष्ठस्य वन्दन-प्रणामः कर्तव्य इति । अत्र परः प्राह-किं यः पर्यायेण ज्यायान् स ज्येष्ठः ? किं वा यो जात्या उपलक्षणत्वात् कुलेन वा ? यद्वा येन श्रुतं बहधीतम् ? अथ येन बहुभिः परिपाटीभिरर्थस्य श्रवणं कृतम् ? एतेषां मध्ये
क इह ज्येष्ठोऽधिक्रियते । अत्राचार्यः प्रत्युत्तरयति-एतेषां मध्यादेकोऽपि नानाधिक्रियते 10किन्तु 'समाप्ते' समर्थिते व्याख्याने उत्थितानां यो व्याख्यानलब्धिमान् 'अनुभाषते' अग्रणी
भूय चिन्तनिकां कारयति स ईह ज्येष्ठो भण्यते, तस्य जिनवचनव्याख्यानलक्षणगुणाधिकतयाऽवमरानिकस्यापि वन्दनं विधेयम् । तथा गुरूणां हेतोः खेल-कायिकीमात्रके प्रथममेव तत्र स्थापयितव्ये, मा भूदनुयोगं शृण्वतां तदानयने श्रवणव्याघातः । एतच्च गाथायामनुक्तमपि प्रक्रमादत्र ज्ञातव्यम्, अन्यत्राऽऽवश्यकादावुक्तत्वात् ।। ७७९ ॥ 15 अथात्रैव वैपरीत्यकरणे प्रायश्चित्तमाह
अवितहकरणे सुद्धो, वितह करेंतस्स मासियं लहुगं ।
अक्ख निसिजा लहुगा, सेसेसु वि मासियं लहुगं ॥ ७८० ॥ प्रमार्जनादिषु पदेषु अवितथकरणे 'शुद्धः' न प्रायश्चित्तभाग् । एतेष्वेव सामाचारी वितथा कुर्वाणस्य लघु मासिकम् , इदं च सामान्यत उक्तम् । अत इदमेव सविशेष विषयविभागे20 नाह-"अक्ख" इत्यादि । अक्षाणामप्रमार्जनेऽस्थापने वा निषद्यामन्तरेण वा स्थापनेऽनुयोगं ददतः शृण्वतां वा चत्वारो लघुकाः । गुरूणां निषद्याया अकरणे श्रोतृणां चत्वारो लघवः । शेषेष्वपि सर्वेषु मासिकं लघुकं प्रायश्चित्तम् । तद्यथा-अनुयोगमण्डलीस्थानं न प्रमार्जयन्ति, वन्दनकं गुरूणां न ददति, अनुयोगप्रारम्भनिमित्तं कायोत्सर्ग न कुर्वन्ति,
खेलमात्रकादिकं न ढोकयन्ति, ज्येष्ठस्य प्रणामं न कुर्वन्ति, सर्वत्रापि प्रत्येकं मासलघु । एवंॐ विधामुपसम्पन्मण्डलीविषयां द्विविधामपि सामाचारी यो न करोति स्म सोऽकृतसामाचारीक उच्यते ॥ ७८० ॥ गतमकृतसामाचारीकद्वारम् । सम्प्रति तरुणधर्मद्वारमाह
तिहाऽऽरेण समाणं, होइ पकप्पम्मि तरुणधम्मो उ। तरुणधर्मा
पंचण्ह दसाकप्पे, जस्स व जो जत्तिओ कालो ॥ ७८१ ॥ व्रतपर्यायमधिकृत्य तिसृणां 'समानां' वर्षाणां 'आरेण' अर्वाग् वर्तमानः 'प्रकल्पे' निशी30 थाध्ययने 'तरुणधर्मा' अविपक्कपर्यायो भवति । तुशब्दो विशेषणे । किं विशिनष्टि ? इह
१ इह ज्येष्ठशब्देन व्यपदिश्यते, तस्य भा० ॥२ मासिकमिति तावदसामाचारी निष्पन्न सामान्येन प्रायश्चित्तम् । इदमेव सविशेष भा० ॥ ३॥ एतदन्तर्गतः पाठः मो० ले. पुस्तकयोरेव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org