________________
भाष्यगाथाः ७७९-८३] पीठिका।
२४५ यः खल्वसञ्जातपञ्चकुर्चीकः स त्रिवर्षपर्यायेऽपि वर्तमानो निशीथाध्ययनस्यायोग्यो मन्तव्य इति । पञ्चानां वर्षाणामर्वाग् वर्तमानस्तु "दसाकप्पे" त्ति उपलक्षणत्वाद् दशा-कल्प-व्यवहाराणां तरुणधर्मा ज्ञातव्यः । 'यस्य वा' सूत्रकृताङ्गादेः श्रुतस्य यो यावान् कालो व्यवहाराध्ययने दशमोद्देशके भणितः तस्य तावन्तं कालमसमापयन् तरुणधर्मा भवति । यथा"कप्पइ चउवासपरियायस्स समणस्स निग्गंथस्स सूअगडं नाम अंग उद्दिसित्तए" (सूत्र २२)। इत्यादि ॥ ७८१ ॥ गतं तरुणधर्मद्वारम् । अथ गर्वितद्वारमाहपुरिसम्मि दुविणीए, विणयविहाणं न किंचि आइक्खे ।
गर्वितः नवि दिजइ आभरणं, पलियत्तियकन्न-हत्थस्स ॥ ७८२ ॥ इह यः श्रुतमधीयानः तदवलेपादेव दुर्विनीतो भवन्नुपलभ्यते, तादृशे पुरुषे 'विनयविधान' कर्मविनयनोपायमाऽऽचारादि श्रुतातम् 'किश्चिदपि' स्तोकमात्रमपि 'नाऽऽचक्षीते' 10 स ने प्रतिपादयेत् । यद्वा विनयः-द्वादशाव-वन्दनकप्रदानादिप्रतिरूपोपचाररूपो विधीयते - यस्मिन्नधीयमाने तद् 'विनयविधानम्' आचारादि श्रुतमेव तद् नाऽऽचक्षीत । कुतो हेतोः? इति चेद् अत आह-"न वि दिजइ" इत्यादि । - 'नापि' नैव दीयते 'आभरणं' कुण्डलकङ्कणादिकं परिकर्तितकर्ण-हस्तस्य पुरुषस्य, आविध्यमानस्यापि तस्य तदङ्गे शोभाया अलभमानत्वात् ; एवं श्रुताभरणमपि विनयविकलाङ्गस्य योज्यमानं न शोभां बिभर्ति इति जिनवचन-15 वेदिना तस्य तद् न दातव्यम् ॥ ७८२ ।।। अथाऽस्यैव सविशेषमपात्रताल्यापनार्थमाह
मद्दवकरणं नाणं, तेणेव उ जे मदं समुवहति ।
ऊणगभायणसरिसा, अगदो वि विसायते तेर्सि ॥ ७८३ ॥ मार्दवं-माननिग्रहस्तकरणं-तत्कारकं 'ज्ञानं' श्रुतरूपम् , 'तेनैव' ज्ञानेन 'ये' दुर्विदग्धाः 20 'मदम्' अहङ्कारं समुद्वहन्ति । कथम्भूतोः ? 'ऊनकभाजनसदृशाः' असम्पूर्णभृतघटादिभाजनतुल्याः, यथा किल तद् झलझलायते तथैतेऽपि दुरधीत विद्यालवतया निजपाण्डित्यगर्वाध्माता
१ गर्वितो नियमादविनीतो भवतीति तद्वारेणैवाभिधीयते-दुर्विनीतो नाम-कथमहमेतस्य समीपे नीचैस्तरासनोपविष्टः सन्नेतदीयमुखादर्थ श्रोष्यामि?' इति मानम्लानिभीरुः गोष्ठामाहिलवद्, एवंविधे पुरुषे 'विनयविधानं' विनयो विधीयतेऽत्र अनेनेति वा विनयविधानं-श्रुतं 'किञ्चिदपि' स्तोकमात्रमपि 'नाऽऽचक्षीत' न प्रतिपादयेत् । कुतः? इत्याह-'नापि' भा० पुस्तके । "पुरिसम्मि गाधा । अविणीयत्तणेण दूसिओ (दुमिओ प्र०) विणतो जस्स स भवति दुविणीओ। सो गन्वेण णेच्छति अत्थमण्डलीए सोउं 'कधमहं एतस्स णीतयरे उवविसिस्सामि?। जो वा पुणेत्ता अविणीतो भविस्सति तस्स वि ण वति कधेतुं 'विणयविधाणं' ति सुतणाणविणयमेदं।" इति चूर्णिः॥ २°त । यतः 'नापि त• डे० ॥ ३ एतदन्तर्गतः पाठः मो० ले. पुस्तकयोरेव ॥ ४ भा० ले. मो० विनाऽन्यत्र-स्य । एवं श्रुताभरणमपि विनयविकलाङ्गस्य जिनववनवेदिना न दात° डे. त• का० ॥ ५ ताः सन्तः? इत्याह-'ऊन भा० ॥ ६ डे० त० कां• विनाऽन्यत्र-°ल्याः, असम्पूर्णभृतं हि झलझलायते तथैतेऽपि ले. मो. 'ल्याः, असम्पूर्णभृतं हि भाजनमितस्ततो झलज्झलायते एवमेतेऽपि भा०॥ ७ डे० त० कां. विनाऽन्यत्र-ता वाचालतया यदपि तदपि झपन्ति । तेषा भा० । °ता यदपि तदपि लपन्तो झलझलायन्ते । एवंविधानां च तेपा ले० मो० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org